Go To Mantra
Viewed 107 times

स॒त्यम॒हं ग॑भी॒रः काव्ये॑न स॒त्यं जा॒तेना॑स्मि जा॒तवे॑दाः। न मे॑ दा॒सो नार्यो॑ महि॒त्वा व्र॒तं मी॑माय॒ यद॒हं ध॑रि॒ष्ये ॥

Mantra Audio
Pad Path

सत्यम् । अहम् ।गभीर: । काव्येन । सत्यम् । जातेन । अस्मि । जातऽवेदा: । न । मे । दास: । न । आर्य: । महिऽत्वा । व्रतम् । मीमाय । यत् । अहम् । धरिष्ये ॥११.३॥

Atharvaveda » Kand:5» Sukta:11» Paryayah:0» Mantra:3


PANDIT KSHEMKARANDAS TRIVEDI

ब्रह्म विद्या का उपदेश।

Word-Meaning: - (अहम्) मैं (सत्यम् सत्यम्) सत्य-सत्य (काव्येन) स्तुतियोग्य (जातेन) प्रसिद्ध ब्रह्म के साथ (गभीरः) शान्त (जातवेदाः) बड़ी बुद्धिवाला (अस्मि) हूँ। (न आर्यः) अनार्य, अविद्वान् (दासः) दास, शूद्र (मे) मेरे (व्रतम्) व्रत को (न) नहीं (मीमाय) तोड़ सका, (यत्) जिसको (अहम्) मैं (महित्वा) बड़ेपन से (धरिष्ये) धारण करूँगा ॥३॥
Connotation: - मनुष्य ब्रह्मविद्या से धीर ज्ञानी होता है और कोई मूर्ख उसके संकल्प में विघ्न नहीं डाल सकता ॥३॥
Footnote: ३−(सत्यम्) यथार्थम् (अहम्) जीवः (गभीरः) गभीरगम्भीरौ। उ० ४।३५। इति गम्लृ−ईरन्, मस्य भः। शान्तः (काव्येन) म० १। स्तुत्येन ब्रह्मणा (सत्यम्) (जातेन) प्रसिद्धेन (अस्मि) (जातवेदाः) जातधनः। जातप्रज्ञः (न) निषेधे (मे) मम (दासः) अ० ४।३२।१। शूद्रः (न आर्यः) अ० ४।३२।१। न प्राप्तुं योग्यः। अनार्यः। अविद्वान्। (महित्वा) अ० ४।२।२। महत्त्वेन (व्रतम्) वरणीयं कर्म (मीमाय) मीञ् हिंसायाम्−लिटि छान्दसं रूपम्। हिंसितवान् (यत्) व्रतम् (अहम्) (धरिष्ये) धरिष्यामि ॥