Go To Mantra
Viewed 146 times

दे॒वो दे॒वाय॑ गृण॒ते व॑यो॒धा विप्रो॒ विप्रा॑य स्तुव॒ते सु॑मे॒धाः। अजी॑जनो॒ हि व॑रुण स्वधाव॒न्नथ॑र्वाणं पि॒तरं॑ दे॒वब॑न्धुम्। तस्मा॑ उ॒ राधः॑ कृणुहि सुप्रश॒स्तं सखा॑ नो असि पर॒मं च॒ बन्धुः॑ ॥

Mantra Audio
Pad Path

देव: । देवाय । गृणते । वय:ऽधा: । विप्र: । विप्राय । स्तुवते । सुऽमेधा: । अजीजन: । हि । वरुण । स्वधाऽवन् । अथर्वाणम् । पितरम् । देवऽबन्धुम् । तस्मै । ऊं इति । राध: । कृणुहि । सुऽप्रशस्तम् । सखा । न: । असि । परमम् । च । बन्धु: ॥११.११॥

Atharvaveda » Kand:5» Sukta:11» Paryayah:0» Mantra:11


PANDIT KSHEMKARANDAS TRIVEDI

ब्रह्म विद्या का उपदेश।

Word-Meaning: - (स्वधावन्) हे आत्मधारणवाले, स्वाधीन (वरुण) श्रेष्ठ ! तू (गृणते) तेरी स्तुति करनेवाले (देवाय) विद्वान् पुरुष को (वयोधाः) बल वा अन्न धारण करनेवाला (देवः) तू देव है। और (स्तुवते) तेरी स्तुति करनेवाले (विप्राय) पण्डित के लिये (सुमेधाः) उत्तम बुद्धिवाला (विप्रः) पण्डित है। तूने (हि) ही (पितरम्) हमारे पालनकर्ता (देवबन्धुम्) विद्वानों के बन्धु (अथर्वाणम्) निश्चलस्वभाव पुरुष को (अजीजनः) उत्पन्न किया है। (तस्मै) उसके लिये (उ) ही (सुप्रशस्तम्) अति उत्तम (राधः) धन (कृणुहि) कर, तू (नः) हमारा (सखा) सखा (च) और (परमम्) अतिशय करके (बन्धुः) बन्धु (असि) है ॥११॥
Connotation: - विद्वान् जन विद्वान् जन का सदा सत्कार करें, इसलिये कि विद्वानों से विद्वान् उत्पन्न होकर जगत् का उपकार करते हैं ॥११॥
Footnote: ११−(देवः) प्रकाशमानः (देवाय) विदुषे (गृणते) त्वां स्तुवते (वयोधाः) बलस्य अन्नस्य वा दाता (विप्रः) मेधावी (विप्राय) मेधाविने (स्तुवते) त्वां प्रशंसते पुरुषाय (सुमेधाः) नित्यमसिच् प्रजामेधयोः। पा० ५।४।१२२। इति सु+मेधा−असिच्। सुबुद्धियुक्तः (अजीजनः) त्वमुत्पादितवानसि (हि) निश्चयेन (वरुण) हे वरणीय पुरुष (स्वधावन्) म० ४। हे आत्मधारणयुक्त (अथर्वाणम्) म० २। निश्चलस्वभावम् (पितरम्) पालकं पितृवन्मान्यम् (देवबन्धुम्) विदुषां हितम् (तस्मै) अथर्वणे (उ) अवश्यम् (राधः) धनम् (कृणुहि) कुरु। देहि (सुप्रशस्तम्) अतिशयेन श्रेष्ठम् (सखा) मित्रम् (नः) अस्माकम् (असि) भवसि (परमम्) अतिशयेन (च) अवधारणे (बन्धुः) हितकरः ॥