Go To Mantra
Viewed 94 times

क॒थं म॒हे असु॑रायाब्रवीरि॒ह क॒थं पि॒त्रे हर॑ये त्वे॒षनृ॑म्णः। पृश्निं॑ वरुण॒ दक्षि॑णां ददा॒वान्पुन॑र्मघ॒ त्वं मन॑साचिकित्सीः ॥

Mantra Audio
Pad Path

कथम् । महे । असुराय । अब्रवी: । इह । कथम् । पित्रे । हरये । त्वेषऽनृम्ण: ।पृश्निम् । वरुण । दक्षिणाम् ।ददावान् । पुन:ऽमघ । त्वम् । मनसा । अचिकित्सी: ॥११.१॥

Atharvaveda » Kand:5» Sukta:11» Paryayah:0» Mantra:1


PANDIT KSHEMKARANDAS TRIVEDI

ब्रह्म विद्या का उपदेश।

Word-Meaning: - (त्वेषनृम्णः) तेजोमय बलवाले तूने (कथम् कथम्) कैसे-कैसे (महे) महान् (असुराय) प्राणदाता वा बुद्धिमान्, (पित्रे) जगत्पिता, (हरये) दुःखनाशक हरि, परमेश्वर [की प्राप्ति] के लिये (इह) यहाँ (अब्रवीः) कथन किया है। (वरुण) हे वरणीय विद्वान्। तूने (पृश्निम्) वेदविद्या और (दक्षिणाम्) प्रतिष्ठा (ददावान्) दान की है (पुनर्मघ) हे वार-वार धन देनेवाले पुरुष ! (त्वम्) तूने (मनसा) मन से (अचिकित्सीः) हमारी चिकित्सा की है ॥१॥
Connotation: - विद्वान् जन कठिन तपश्चर्या से परमेश्वर की विद्या प्राप्त करके उसके उपदेश से संसार को सुखी करते हैं ॥१॥
Footnote: १−(कथम्) केन प्रकारेण (महे) महते (असुराय) अ० १।१०।१। प्राणदात्रे। प्रज्ञावते परमेश्वराय। तस्य प्राप्तय इत्यर्थः (अब्रवीः) त्वं कथितवान् (इह) अत्र संसारे (कथम्) (पित्रे) पालकाय (हरये) दुःखनाशकाय। परमेश्वरप्राप्तये (त्वेषनृम्णः) अ० ५।२।१। तेजोबलस्त्वम् (पृश्निम्) अ० २।१।१। स्पृश स्पर्शे−नि। स्पृशति योगिनः। वेदविद्याम्। पृश्निः=वेदाः−इति शब्दकल्पद्रुमः (वरुण) हे वरणीय विद्वन् (दक्षिणाम्) अ० ५।७।१। प्रतिष्ठाम् (ददावान्) ददातेः−क्वसु। छान्दसं रूपम्। ददिवान्। दप्तवान् त्वम् (पुनर्मघ) मघमिति धननामधेयं संहतेर्दानकर्मणः−निरु० १।७। पुनर्भूयो भूयो मघं धनं यस्मात् स पुर्नमघः तत्सम्बुद्धौ। हे पुनः पुनर्धनदातः (त्वम्) [मनसा] हृदयेन [अचिकित्सीः] कित रोगापनयने−लुङ्। त्वं चिकित्सां रोगप्रतिकारं कृतवानसि ॥