उ॒तासि॑ परि॒पाणं॑ यातु॒जम्भ॑नमाञ्जन। उ॒तामृत॑स्य॒ त्वं वे॒त्थाथो॑ असि जीव॒भोज॑न॒मथो॑ हरितभेष॒जम् ॥
Pad Path
उत । असि । परिऽपानम् । यातुऽजम्भनम् । आऽअञ्जन । उत । अमृतस्य । त्वम् । वेत्थ । अथो इति । असि । जीवऽभोजनम् । अथो इति । हरितऽभेषजम् ॥९.३॥
Atharvaveda » Kand:4» Sukta:9» Paryayah:0» Mantra:3
Reads 74 times
PANDIT KSHEMKARANDAS TRIVEDI
ब्रह्मविद्या का उपदेश।
Word-Meaning: - (उत) और (आञ्जन) हे संसार के व्यक्त करनेवाले ब्रह्म ! तू (परिपाणम्) हमारी रक्षा का साधन, (यातुजम्भनम्) पीड़ाओं का नाश करनेवाला (असि) है, (उत) और (त्वम्) तू (अमृतस्य) अमृत अर्थात् मोक्ष सुख का (वेत्थ) ज्ञाता है, (अथो) और भी तू (जीवभोजनम्) जीवों का पालनेवाला (अथो) और भी (हरितभेषजम्) रोग से उत्पन्न पीतरंग की ओषधि (असि) है ॥३॥
Connotation: - संसार के कर्ता धर्ता परमेश्वर के उपकारों को देखकर मनुष्य प्रयत्नपूर्वक विद्यादि सुखसाधनों की प्राप्ति से मोक्षानन्द भोगें ॥३॥
Footnote: ३−(उत) अपि च (असि) भवसि (परिपाणम्) म० २। परिरक्षणसाधनम् (यातुजम्भनम्) कृवापाजिमि०। उ० १।१। इति यत ताडने-उण्। जभि नाशने-ल्युट्। यातूनां यातनानां पीडानां नाशनम् (आञ्जन) आङ् पूर्वाद् अञ्जू व्यक्तिम्रक्षणकान्तिगतिषु-ल्युट्। आसमन्ताद् अनक्ति व्यनक्ति व्यक्तं करोति अव्यक्तं जगत् आञ्जनम्। तत्सम्बुद्धौ। हे यथावत् संसारस्य व्यक्तीकारक ब्रह्म (अमृतस्य) मोक्षस्य। परमानन्दस्य (त्वम्) (वेत्थ) विदो लटो वा० पा० ३।४।८३। इति थल् आदेशः। ज्ञाता भवसि (अथो) अपि च (जीवभोजनम्) भुज पालनाभ्यवहारयोः-ल्युट्। जीवानां जीवतां प्राणिनां पालनम् (हरितभेषजम्) हृश्याभ्यामितन्। उ० ३।९३। इति हृञ् हरणे-इनन्। हरति सुखमिति हरितः। भेषं रोगं जयतीति भेषजम्। भेष+जि-ड। हरितस्य रोगजनितस्य पीतवर्णस्यौषधम्। तद्वद् उपकारकम् ॥
