Viewed 100 times
एहि॑ जी॒वं त्राय॑माणं॒ पर्व॑तस्या॒स्यक्ष्य॑म्। विश्वे॑भिर्दे॒वैर्द॒त्तं प॑रि॒धिर्जीव॑नाय॒ कम् ॥
Pad Path
आ । इहि । जीवम् । त्रायमाणम् । पर्वतस्य । असि । अक्ष्यम् । विश्वेभि: । देवै: । दत्तम् । परिऽधि: । जीवनाय । कम् ॥९.१॥
Atharvaveda » Kand:4» Sukta:9» Paryayah:0» Mantra:1
PANDIT KSHEMKARANDAS TRIVEDI
ब्रह्मविद्या का उपदेश।
Word-Meaning: - (एहि) आ। (जीवम्) जीव को (त्रायमाणम्) पालता हुआ, (पर्वतस्य) पूर्ति करनेवाले वा अवयवोंवाले मेघ के (अक्ष्यम्) व्यवहार के लिये हितकारक, (विश्वेभिः) सब (देवैः) दिव्य गुणों के साथ (दत्तम्) दिया हुआ (कम्) तू सुखस्वरूप ब्रह्म (जीवनाय) हमारे जीवन के लिये (परिधिः) परकोटा रूप (असि) है ॥१॥
Connotation: - परमेश्वर मेघ के समान जगत् की रक्षा करनेवाला हमारे हृदयों में विराजमान होकर हमारा प्राणाधार है, ऐसा समझ कर हम पुरुषार्थ के साथ सुख प्राप्त करें ॥१॥
Footnote: १−(एहि) आगच्छ (जीवम्) इगुपधज्ञा०। पा० ३।१।१३५। इति जीव प्राणधारणे-क। जीवति प्राणयतीति जीवः। प्राणिनम्। आत्मानम् (त्रायमाणम्) त्रैङ् पालने-शानच्। पालयन् (पर्वतस्य) भृमृदृशियजिपर्वि०। उ० ३।११०। इति पर्व पूरणे-अतच्। यद्वा। पर्वतो मेघः-निघ० १।१०। पर्वमरुद्भ्यां तन् वक्तव्यः। वा० पा० ५।२।१२२। इति पर्वन्-मत्वर्थे तन्। पर्ववान् पर्वतः पर्व पुनः पृणातेः प्रीणातेर्वा। निरु० १।२०। इष्टपूरकस्य यद्वा अवयवयुक्तस्य मेघस्य (असि) भवसि (अक्ष्यम्) अशेर्देवने। उ० ३।६५। इति अशू व्याप्तौ-स। अक्षो व्यवहारः। अक्ष-यत्। अक्षाय व्यवहाराय हितम् (विश्वेभिः) सर्वैः (देवैः) दिव्यगुणैः सह (दत्तम्) हृदये समर्पितम् (परिधिः) उपसर्गे घोः किः। पा० ३।३।९२। इति परि+धाञ्-कि। परितो धीयते परिधिः प्राकारः (जीवनाय) चिरकालजीवनार्थम् (कम्) कच दीप्तौ-ड। सुखस्वरूपं ब्रह्म ॥
