Go To Mantra
Viewed 113 times

आ॒तिष्ठ॑न्तं॒ परि॒ विश्वे॑ अभूषं॒ छ्रियं॒ वसा॑नश्चरति॒ स्वरो॑चिः। म॒हत्तद्वृष्णो॒ असु॑रस्य॒ नामा वि॒श्वरू॑पो अ॒मृता॑नि तस्थौ ॥

Mantra Audio
Pad Path

आऽतिष्ठन्तम् । परि । विश्वे । अभूषन् । श्रियम् । वसान: । चरति । स्वऽरोचि: । महत् । तत् । वृष्ण: । असुरस्य । नाम । आ । विश्वऽरूप: । अमृतानि । तस्थौ ॥८.३॥

Atharvaveda » Kand:4» Sukta:8» Paryayah:0» Mantra:3


PANDIT KSHEMKARANDAS TRIVEDI

राजतिलक यज्ञ का उपदेश।

Word-Meaning: - (विश्वे) सब जनों ने (आतिष्ठन्तम्) [सिंहासन आदि पर] बैठते हुए राजा को (परि अभूषन्) सब प्रकार से अंलकृत वा प्राप्त किया है। (श्रियम्) राजलक्ष्मी को (वसानः) धारण करता हुआ, (स्वरोचिः) स्वयं प्रकाशमान यह (चरति) वर्त्तमान होता है। (वृष्णः) उस ऐश्वर्यवाले (असुरस्य) प्राणदाता का (तत्) वह (महत्) विशाल (नाम) नाम है। (विश्वरूपः) अनेक प्रकार के स्वभाववाले उसने (अमृतानि) अनश्वर सुखों को (आ तस्थौ) प्राप्त किया है ॥३॥
Connotation: - प्रजागण सिंहासन पर बैठे हुए राजा को भेंट आदि देकर सेवा करें, और राजा यथायोग्य सबसे वर्त्ताव करके आनन्द प्राप्त करे ॥३॥
Footnote: ३−(आतिष्ठन्तम्) सिंहासनादिकम् आरोहन्तम् (परि) परितः सर्वतः (विश्वे) विश्वे देवाः। सर्वे शूरविद्वांसः (अभूषन्) भूष अलंकारे लुङ्। यद्वा, भू प्राप्तौ छान्दसे लुङि सिप्। अलंकृतवन्तः। प्राप्तवन्तः (श्रियम्) क्विब् वचिप्रच्छिश्रिस्रु०। उ० २।५७। इति श्रिञ् सेवने-क्विप् दीर्घश्च। श्रयति पुरुषार्थिनं सा श्रीः। राजलक्ष्मीम्। सम्पत्तिम् (वसानः) वस आच्छादने-लटः शानच्। धारयन् (चरति) राज्यपालने वर्तते (स्वरोचिः) वसौ रुचेः संज्ञायाम्। उ० २।१११। रुच दीप्तौ अभिप्रीप्तौ च-इसिन्। स्वयंरोचमानो दीप्यमानः। स्वरुचिः। स्वतन्त्रः (महत्) अधिकम्। विशालम् (तत्) प्रसिद्धम् (वृष्णः) अ० १।१२।१। वर्षकस्य। ऐश्वर्ययुक्तस्य। इन्द्रस्य (असुरस्य) अ० १।१०।१। दीप्यमानस्य। प्राणप्रदस्य। शूरस्य (नाम) अ० १।२४।३। म्ना अभ्यासे-मनिन्। अभ्यस्तं नामधेयम्। संज्ञा। (आ) समन्तात् (विश्वरूपः) शत्रुमित्रकलत्रादिषु नानास्वभावः। यथायोग्यं वर्त्तमानः (अमृतानि) अनश्वरसुखानि (आ तस्थौ) आरूढवान्। प्राप्तवान् ॥