Go To Mantra

सु॑प॒र्णस्त्वा॑ ग॒रुत्मा॒न्विष॑ प्रथ॒ममा॑वयत्। नामी॑मदो॒ नारू॑रुप उ॒तास्मा॑ अभवः पि॒तुः ॥

Mantra Audio
Pad Path

सुऽपर्ण: । त्वा । गरुत्मान् । विष । प्रथमम् । आवयत् । न । अमीमद: । न । अरूरुप: । उत । अस्मै । अभव: । पितु: ॥६.३॥

Atharvaveda » Kand:4» Sukta:6» Paryayah:0» Mantra:3


Reads 80 times

PANDIT KSHEMKARANDAS TRIVEDI

विष दूर करने के लिये उपदेश।

Word-Meaning: - (विष) हे विष ! (सुपर्णः) शीघ्रगामी (गरुत्मान्) सुन्दर पंखवाले गरुड़ ने (प्रथमम्) प्रसिद्ध (त्वा) तुझको (आवयत्) खाया, तूने [उसे] (न) न तौ (अमीमदः) मत्त किया और (न) न (अरूरुपः) घबरा दिया, (उत) किन्तु तू (अस्मै) उसके लिये (पितुः) अन्न (अभवः) हुआ है ॥३॥
Connotation: - जैसे गरुड़, मोर आदि पक्षी अपनी विषपाचक शक्ति से विषधारी सर्प को खाकर अपना शरीर पुष्ट करते हैं, इसी प्रकार सद्वैद्य ओषधि द्वारा विषजनक रोगों का नाश करके संसार में नीरोगता फैलाते हैं ॥३॥
Footnote: ३−(सुपर्णः) आ० १।२४।१। सुपर्णाः सुपतना आदित्यरश्मयः, सुपर्णाः सुपतनानीन्द्रियाणि-निरु० ३।१२। शीघ्रगतिः। शोभनपक्षयुक्तः (त्वा) त्वां विषम् (गरुत्मान्) मृग्रोरुतिः। उ० १।९४। इति गॄ शब्दे-उति। गृणाति शब्दायते वायुवेगात् स गरुत् पक्षः। ततो मतुप्। उरगाशनः पक्षिविशेषः। गरुडः (विष) (प्रथमम्) प्रधानम्। अतिप्रभावयुक्तमित्यर्थः (आवयत्=आ अवयत्) वी गतिव्याप्तिप्रजनकान्त्यसनखादनेषु-लङ्। आवयतिः, अत्तिकर्मा-निघ० २।८। अभक्षयत् (न) निषेधे (अमीमदः) मदी हर्षग्लेपनयोः। ग्लेपनं दैन्यम्। ण्यन्तात् लुङि चङि रूपम्। मत्तं ज्ञानविकलम् अकार्षीः (अरूरुपः) रुप विमोहने ण्यन्तात् लुङि चङि रूपम्। विमूढम् अकार्षीः (उत) अपि तु (अस्मै) गरुत्मते (अभवः) लङ् (पितुः) कमिसनि०। उ० १।७१। इति पा रक्षणे, वा पा पाने, अथवा ओप्यायी वृद्धौ तु प्रत्ययः। धातोः पिभावः। पितुरित्यन्ननाम पातेर्वा पिबतेर्वा प्यायतेर्वा-निरु० ९।२४। अन्नम् ॥