याव॑ती॒ द्यावा॑पृथि॒वी व॑रि॒म्णा याव॑त्स॒प्त सिन्ध॑वो वितष्ठि॒रे। वाचं॑ वि॒षस्य॒ दूष॑णीं॒ तामि॒तो निर॑वादिषम् ॥
Pad Path
यावती । इति । द्यावापृथिवी इति । वरिम्णा । यावत् । सप्त । सिन्धव: । विऽतस्थिरे । वाचम् । विषस्य । दूषणीम् । ताम् । इत: । नि:। अवादिषम् ॥६.२॥
Atharvaveda » Kand:4» Sukta:6» Paryayah:0» Mantra:2
Reads 67 times
PANDIT KSHEMKARANDAS TRIVEDI
विष दूर करने के लिये उपदेश।
Word-Meaning: - (द्यावापृथिवी=०-व्यौ) सूर्य और पृथिवीलोक (वरिम्णा) अपने विस्तार से (यावती=०-त्यौ) जितने हैं, और (सप्त) जीव से मिली हुई वा गमनशील, वा सात (सिन्धवः) बहनेवाली नदी रूप इन्द्रियाँ [दो कान, दो नथने, दो आँखे और एक मुख] (यावत्) जितने (वितष्ठिरे) फैलकर स्थित हैं। (इतः) इस स्थान से (विषस्य) विष की (दूषणीम्) खण्डन करनेवाली (ताम्) उस (वाचम्) वाणी को (निरवादिषम्) मैंने कह दिया है ॥२॥
Connotation: - मनुष्य उपाय करें कि आकाश और पृथिवी के सब गोचर पदार्थों में विष का संसर्ग न हो और पुष्टिकारक और बलवर्धक वस्तुओं के स्पर्श, दर्शन, श्रवण, मनन, संभोग आदि से आनन्द प्राप्त हो ॥२॥
Footnote: २−(यावती) यत्तदेतेभ्यः परिमाणे वतुप् पा० ५।२।३९। इति यत्-वतुप्। ङीप्। आ सर्वनाम्नः। पा० ६।३।९१। इति आत्वम्। वा छन्दसि। पा० ६।१।१०६। इति विभक्तेः पूर्वसवर्णदीर्घः। यावत्यौ। यावत्परिमाणयुक्ते (द्यावापृथिवी) पूर्वसवर्णदीर्घः। सूर्यपृथिव्यौ (वरिम्णा) पृथ्वादिभ्य इमनिज्वा। पा० ५।१।१२२। इति उरु-इमनिच्। प्रियस्थिर०। पा० ६।४।१५७। इति वर् आदेशः। उरुत्वेन। विस्तारेण (सप्त) सप्यशुभ्यां तुट् च। उ० १।१५७। इति षप समावये, यद्वा, सृल्पृ गतौ कनिन्। तुट् च, ऋकारस्य अकारः। सप्तपुत्रं सप्तमपुत्रं सर्पणपुत्रमति वा सप्त सृप्ता सङ्ख्या सप्तादित्यरश्मय इति निरु० ४।२६। जीवेन सह समवेताः सर्पणा गमनशीला वा सप्तसङ्ख्याका वा (सिन्धवः) अ० ४।३।१। स्यन्दनशीलानि नदीरूपाणि शीर्षण्यानि कर्णनासिकाचक्षुर्द्वयमुखानि-व्याख्यातम्। अ० २।१२।७। (वितष्ठिरे) ष्ठा गतिनिवृत्तौ-लिट्। समवप्रविभ्यः स्थः। पा० १।३।२२। इति आत्मनेपदम्। विस्तारेण स्थिताः (वाचम्) वाणीम् (दूषणीम्) दुष वैकृते-ण्यन्तात् ल्युट्। ङीप्। नाशनीम् (ताम्) तादृशीम् (इतः) अस्माद् देशात् (निः अवादिषम्) वद वाक्ये-लुङ्। वदव्रजहलन्तस्याचः। पा० ७।२।३। इति वृद्धिः। अहं निर्गमय्य उच्चारितवानस्मि ॥
