Go To Mantra
Viewed 184 times

स्वप्तु॑ मा॒ता स्वप्तु॑ पि॒ता स्वप्तु॒ श्वा स्वप्तु॑ वि॒श्पतिः॑। स्वप॑न्त्वस्यै ज्ञा॒तयः॒ स्वप्त्व॒यम॒भितो॒ जनः॑ ॥

Mantra Audio
Pad Path

स्वप्तु । माता । स्वप्तु । पिता । स्वप्तु । श्वा । स्वप्तु । विश्पति: । स्वपन्तु । अस्यै । ज्ञातय: । स्वप्तु । अयम् । अभित: । जन: ॥५.६॥

Atharvaveda » Kand:4» Sukta:5» Paryayah:0» Mantra:6


PANDIT KSHEMKARANDAS TRIVEDI

बच्चों के सुलाने का गीत अर्थात् लोरी।

Word-Meaning: - (अस्यै) इस [सन्तति, पुत्र वा पुत्री के हित] के लिये (माता) माता (स्वप्तु) सोवे, (पिता) पिता (स्वप्तु) सोवे, (श्वा) कुत्ता (स्वप्तु) सोवे, (विश्पतिः) प्रजापालक, गृहपति (स्वप्तु) सोवे। (ज्ञातयः) ज्ञाति के लोग (स्वपन्तु) सोवें, और (अयम्) यह (जनः) सब जने (अभितः) चारों ओर (स्वप्तु) सोवें ॥६॥
Connotation: - अब रात्री में सब लोग चुप-चाप सो जावें, खलबल न मचावें, जिससे यह बालक सुखपूर्वक सो जावे ॥६॥ यह मन्त्र कुछ भेद से ऋग्वेद० ७।५५।५ में है ॥
Footnote: ६−(स्वप्तु) ञिष्वप् शयने। इडभावश्छान्दसः। स्वपितु। निद्रातु (माता) जननी (पिता) जनकः (श्वा) म० २। गमनशीलः। वृद्धिशीलः। कुक्कुरः (विश्पतिः) विशां प्रजानां पालको गृही। गृहाधिपतिः (स्वपन्तु) निद्रान्तु (अस्यै) दृश्यमानायै प्रजायै सन्तत्यै। कन्यायाः पुत्रस्य वा हिताय (ज्ञातयः) क्तिच्क्तौ च संज्ञायाम्। पा० ३।३।१७४। इति ज्ञा ज्ञाने-क्तिच्। जानाति कुलस्थितिं स ज्ञातिः। एककुलोत्पन्नाः। पितृव्याद्यः। बान्धवाः। सम्बन्धिनः (अमितः) परितः स्थितः (जनः) लोकः। मनुष्यसमूहः ॥