Go To Mantra
Viewed 167 times

ये पु॒रस्ता॒ज्जुह्व॑ति जातवेदः॒ प्राच्या॑ दि॒शोऽभि॒दास॑न्त्य॒स्मान्। अ॒ग्निमृ॒त्वा ते परा॑ञ्चो व्यथन्तां प्र॒त्यगे॑नान्प्रतिस॒रेण॑ हन्मि ॥

Mantra Audio
Pad Path

ये । पुरस्तात् । जुह्वति । जातऽवेद: । प्राच्या: । दिश: । अभिऽदासन्ति । अस्मान् । अग्निम् । ऋत्वा । ते । पराञ्च: । व्यथन्ताम् । प्रत्यक् । एनान् । प्रतिऽसरेण । हन्मि ॥४०.१॥

Atharvaveda » Kand:4» Sukta:40» Paryayah:0» Mantra:1


PANDIT KSHEMKARANDAS TRIVEDI

शत्रु के नाश करने का उपदेश।

Word-Meaning: - (जातवेदः) हे ज्ञानवान् परमेश्वर ! (ये) जो लोग (पुरस्तात्) सन्मुख होकर (प्राच्याः) पूर्व वा सन्मुख (दिशः) दिशा से (अस्मान्) हमको (जुह्वति) खाते और (अभिदासन्ति) चढ़ाई करते हैं। (ते) वे (अग्निम्) [तुझ] सर्वव्यापक को (ऋत्वा) पाकर (पराञ्चः) पीठ देते हुए (व्यथन्ताम्) व्यथा में पड़ें। (एनान्) इनको (प्रतिसरेण) [तुझ] अग्रगामी के साथ (प्रत्यक्) उलटा (हन्मि) मैं मारता हूँ ॥१॥
Connotation: - मनुष्य परमेश्वर में भक्ति करके पुरुषार्थपूर्वक अपने आत्मिक और शारीरिक शत्रुओं का नाश करें। ऐसा ही भाव अन्य मन्त्रों का समझो ॥१॥ इस सूक्त का मिलान अथर्व० ३।२६ तथा २७ से करो ॥
Footnote: १−(ये) शत्रवः (पुरस्तात्) अग्रतः (जुह्वति) हु दानादनयोः। अदन्ति। नाशयन्ति (जातवेदः) आ० १।७।२। हे जातप्रज्ञान परमेश्वर (प्राच्याः) अ० ३।२६।१। स्वास्थानात् पूर्वायाः स्वाभिमुखीभूतायाः (दिशः) दिशायाः सकाशात् (अभिदासन्ति) अभितो घ्नन्ति (अस्मान्) (धार्मिकान्) (अग्निम्) सर्वव्यापिनं त्वां जातवेदसम् (ऋत्वा) गत्वा प्राप्य (ते) शत्रवः (पराञ्चः) पराङ्मुखाः कुण्ठितशक्तयः सन्तः (व्यथन्ताम्) व्यथ भयचलनयोः। व्यथिताः संतप्ता भवन्तु (प्रत्यक्) प्रतिमुखम् (एनान्) दुष्टान् शत्रून् (प्रतिसरेण) अ० २।११।२। अग्रगामिना त्वया सह (हन्मि) नाशयामि ॥