अ॒ग्नाव॒ग्निश्च॑रति॒ प्रवि॑ष्ट॒ ऋषी॑णां पु॒त्रो अ॑भिशस्ति॒पा उ॑। न॑मस्का॒रेण॒ नम॑सा ते जुहोमि॒ मा दे॒वानां॑ मिथु॒या क॑र्म भा॒गम् ॥
अग्नौ । अग्नि: । चरति । प्रऽविष्ट: । ऋषीणाम् । पुत्र: । अभिशस्तिऽपा: । ऊं इति । नम:ऽकारेण । नमसा । ते । जुहोमि । मा । देवानाम् । मिथुया । कर्म । भागम् ॥३९.९॥
PANDIT KSHEMKARANDAS TRIVEDI
परमेश्वर के गुणों का उपदेश।
