Go To Mantra
Viewed 208 times

अ॒न्तरि॑क्षेण स॒ह वा॑जिनीवन्क॒र्कीं व॒त्सामि॒ह र॑क्ष वाजिन्। इ॒मे ते॑ स्तो॒का ब॑हु॒ला एह्य॒र्वाङि॒यं ते॑ क॒र्कीह ते॒ मनो॑ऽस्तु ॥

Mantra Audio
Pad Path

अन्तरिक्षेण । सह । वाजिनीऽवन् । कर्कीम् । वत्साम् । इह । रक्ष । वाजिन् । इमे । ते । स्तोका: । बहुला: । आ । इहि । अर्वाङ् । इयम् । ते । कर्की । इह । ते । मन: । अस्तु ॥३८.६॥

Atharvaveda » Kand:4» Sukta:38» Paryayah:0» Mantra:6


PANDIT KSHEMKARANDAS TRIVEDI

परमेश्वर के गुणों का उपदेश।

Word-Meaning: - (अन्तरिक्षेण सह) सब में दृश्यमान सामर्थ्य के साथ (वाजिनीवन्) हे अन्नवती वा बलवती क्रियावाले, (वाजिन्) हे बलवान् परमेश्वर ! (इह) यहाँ पर (कर्कीम्) अपनी बनानेवाली और (वत्साम्) निवास देनेवाली शक्ति की (रक्ष) रक्षा कर। (इमे) यह सब (ते) तेरे (स्तोकाः) अनुग्रह (बहुलाः) बहुत पदार्थ देनेवाले हैं। (अर्वाङ्) सन्मुख (एहि) तू आ। (इयम्) यह (ते) तेरी (कर्की) रचना शक्ति है। (इहि) इसमें (ते) तेरा (मनः) मनन (अस्तु) होवे ॥६॥
Connotation: - परमेश्वर ने अपनी व्यापकता और कृपा से सब संसार हमारे लिये रचा है। हम उसका मनन करके सदा सुखी रहें ॥६॥
Footnote: ६−(अन्तरिक्षेण) सर्वमध्यदृश्यमानेन सामर्थ्येन (सह) (वाजिनीवन्) वाजिनी अन्नवती बलवती वा क्रिया तया तद्वन् (कर्कीम्) कृदाधा०। उ० ३।४०। इति डुकृञ्-क, ङीप्। कर्त्त्रीं शक्तिम् (वत्साम्) वृतॄवदिवचिवसि०। उ० ३।६२। इति वस निवासे-स। निवासयित्रीम् (इह) अस्मिन् शरीरे (रक्ष) पालय (वाजिन्) हे बलवन् (इमे) दृश्यमानाः (ते) तव (स्तोकाः) ष्टुच प्रसादे-घञ्। प्रसादाः। अनुग्रहाः। यद्वा। आद्यन्तविपर्ययो भवति, स्तोकाः-निरु० २।१। इति श्चुतिर् क्षरणे-घञ्। विन्दवः (बहुलाः) अ० ३।१४।६। वृद्धिशीलाः। बहुदातारः (एहि) आगच्छ (अर्वाङ्) अभिमुखः (इयम्) (ते) (कर्की) कर्त्री शक्तिः (इह) (ते) (मनः) मननम्। विज्ञानम् (अस्तु) भवतु ॥