Go To Mantra

सूर्य॑स्य र॒श्मीननु॒ याः स॒ञ्चर॑न्ति॒ मरी॑चीर्वा॒ या अ॑नुस॒ञ्चर॑न्ति। यासा॑मृष॒भो दू॑र॒तो वा॒जिनी॑वान्त्स॒द्यः सर्वा॑न्लो॒कान्प॒र्येति॒ रक्ष॑न्। स न॒ ऐतु॒ होम॑मि॒मं जु॑षाणो॑३ऽन्तरि॑क्षेण स॒ह वा॒जिनी॑वान् ॥

Mantra Audio
Pad Path

सूर्यस्य । रश्मीन् । अनु । या: । सम्ऽचरन्ति । मरीची: । वा । या: । अनुऽसंचरन्ति । यासाम् । ऋषभ: । दूरत: । वाजिनीऽवान् । सद्य: । सर्वान् । लोकान् । परिऽएति । रक्षन् । स: । न: । आ । एतु । होमम् । इमम् । जुषाण: । अन्तरिक्षेण । सह । वाजिनीऽवान् ॥३८.५॥

Atharvaveda » Kand:4» Sukta:38» Paryayah:0» Mantra:5


Reads 212 times

PANDIT KSHEMKARANDAS TRIVEDI

परमेश्वर के गुणों का उपदेश।

Word-Meaning: - (याः) जो [शक्तियाँ] (सूर्यस्य) सूर्य की (रश्मीन् अनु) व्यापक किरणों के साथ-साथ (संचरन्ति) चलती रहती हैं, (वा) और (याः) जो (मरीचीः) सब प्रकाशों के (अनुसंचरन्ति) साथ-साथ फिरती हैं। (यासाम्=तासाम्) उनका (ऋषभः) दर्शक परमेश्वर (वाजीनीवान्) अन्नवती क्रिया धारण करता हुआ (दूरतः) दूर से (सद्यः) तुरन्त ही (सर्वान् लोकान्) सब लोकों को (रक्षन्) पालता हुआ (पर्यैति) घेरकर आता है। (अन्तरिक्षेण सह) सब में दृश्यमान सामर्थ्य के साथ (वाजिनीवान्) बलवती क्रियावाला (सः) वह परमेश्वर (नः) हमारे (इमम्) इस (होमम्) आत्मदान को (जुषाणः) स्वीकार करता हुआ (ऐतु) आवे ॥५॥
Connotation: - परमेश्वर अपनी शक्ति से सब दूर और निकट के पदार्थों में व्यापक होकर रक्षा करता है। मनुष्य उसमें पूर्ण श्रद्धा करके पुरुषार्थपूर्वक अपनी उन्नति करें ॥५॥ पं० सेवकलाल कृष्णदास की संहिता में (पर्यैति) के स्थान पर [पर्येति] और पदपाठ में [परि-एति] पद है ॥
Footnote: ५−(सूर्यस्य) आदित्यस्य (रश्मीन्) अ० २।३२।१। व्यापकान् किरणान् (अनु) अनुसृत्य (याः) अप्सराः। ईश्वरशक्त्यः। (संचरन्ति) सम्यग् गच्छन्ति (मरीचीः) म्रियन्ते तमांसि यया। मृकणिभ्यामीचिः। उ० ४।७०। इति मृङ्-ईचि। दीप्तीः। प्रकाशान् (वा) वेति विचारणार्थे.... अथापि समुच्चयार्थे भवति-निरु० १।४। (अनुसंचरन्ति) अनुलक्ष्य व्याप्नुवन्ति (यासाम्)=तासाम् अप्सराणाम् (ऋषभः) अ० ३।६।४। द्रष्टा सर्वश्रेष्ठः परमेश्वरः (दूरतः) दूरदेशात्। अगम्यस्थानात् (वाजिनीवान्) अन्नवतीक्रियावान् (सद्यः) अ० २।१।४। तत्क्षणम् (सर्वान्) (लोकान्) दृश्यमानानि भुवनानि (पर्यैति) परित आ-गच्छति (रक्षन्) पालयन् (सः) (नः) अस्माकम् (ऐतु) आगच्छतु (होमम्) अर्त्तिस्तुसुहु०। उ० १।१४०। इति हु दानादानादनेषु-मन्। आत्मदानम् (इमम्) (जुषाणः) सेवमानः (अन्तरिक्षेण) सर्वमध्यदृश्यमानेन सामर्थ्येन (सह) (वाजिनीनाम्) बलवतीक्रियायुक्तः ॥