Go To Mantra
Viewed 136 times

यायैः॑ परि॒नृत्य॑त्या॒ददा॑ना कृ॒तं ग्लहा॑त्। सा नः॑ कृ॒तानि॑ सीष॒ती प्र॒हामा॑प्नोतु मा॒यया॑। सा नः॒ पय॑स्व॒त्यैतु॒ मा नो॑ जैषुरि॒दं धन॑म् ॥

Mantra Audio
Pad Path

या । अयै: । परिऽनृत्यति । आऽददाना । कृतम् । ग्लहात् । सा । न: । कृतानि । सीषती । प्रऽहाम् । आप्नोतु । मायया । सा । न: । पयस्वती । आ । एतु । मा । न: । जैषु । इदम् । धनम् ॥३८.३॥

Atharvaveda » Kand:4» Sukta:38» Paryayah:0» Mantra:3


PANDIT KSHEMKARANDAS TRIVEDI

परमेश्वर के गुणों का उपदेश।

Word-Meaning: - (या) जो शक्ति (अयैः) मङ्गल अनुष्ठानों के साथ (ग्लहात्) [अपने] अनुग्रह से (कृतम्) कर्म (आददाना) स्वीकार करती हुयी (परिनृत्यति) सब ओर चेष्टा करती है। (सा) वही (नः) हमारे (कृतानि) कर्मों को (मायया) बुद्धि के साथ (सीषती) नियमबद्ध चाहती हुयी (प्रहाम्) उत्तम गति (आप्नोतु) प्राप्त करे [अर्थात् प्रसन्न हो] (सा) वही (नः) हमारे लिये (पयस्वती) अन्नवाली होकर (ऐतु) आवे। (नः) हमारे (इदम्) इस (धनम्) धन को [शत्रु लोग] (मा जैषुः) न जीतें ॥३॥
Connotation: - मनुष्य परमेश्वर की शक्तियों को जानकर पुष्कल अन्न आदि पदार्थ प्राप्त करके बलवान् हों ॥३॥
Footnote: ३−(या) (अयैः) एति सुखमनेन, इण् गतौ-अच्। अयः शुभावहे विधिः-इत्यमरः। ४।२७। शुभावहैर्विधिभिः। मङ्गलानुष्ठानैः (परिनृत्यति) सर्वत्र चेष्टते (आददाना) स्वीकुर्वाणा (कृतम्) कर्म (ग्लहात्) स्वानुग्रहात् (सा) (नः) अस्माकम् (कृतानि) कर्माणि (सीषती) षिञ् बन्धने-सनि, शतरि छान्दसं रूपम्। सिषीषन्ती। बन्धुं नियन्तुम् इच्छन्ती (प्रहाम्) प्र+ओहाङ् गतौ-क, टाप्। प्रकृष्टां गतिम् (आप्नोतु) प्राप्नोतु (मायया) प्रज्ञया-निघ० ३।९। (नः) अस्मभ्यम् (पयस्वती) पयः=अन्नम्-निघ० २।७। अन्नवती (ऐतु) आगच्छतु (नः) अस्माकम् (मा जैषुः) जि जये माङि लुङि रूपम्। न जयन्तु। माप हार्षुः शत्रवः (इदम्) (धनम्) वित्तम् ॥