Go To Mantra
Viewed 207 times

त्वया॑ व॒यम॑प्स॒रसो॑ गन्ध॒र्वांश्चा॑तयामहे। अज॑शृ॒ङ्ग्यज॒ रक्षः॒ सर्वा॑न् ग॒न्धेन॑ नाशय ॥

Mantra Audio
Pad Path

त्वया । वयम् । अप्सरस: । गन्धर्वान् । चातयामहे । अजऽशृ‍ङ्गि । अज । रक्ष: । सर्वान् । गन्धेन । नाशय ॥३७.२॥

Atharvaveda » Kand:4» Sukta:37» Paryayah:0» Mantra:2


PANDIT KSHEMKARANDAS TRIVEDI

गन्धर्व और अप्सराओं के गुणों का उपदेश।

Word-Meaning: - (अजशृङ्गि) हे जीवात्मा के दुःखनाशक शक्ति परमेश्वर ! (त्वया) तेरे साथ (वयम्) हम लोग (अप्सरसः) आकाश, जल, प्राण और प्रजाओं में व्यापक शक्तियों को और (गन्धर्वान्) विद्या वा पृथिवी धारण करनेवाले गुणों को (चातयामहे) माँगते हैं। (गन्धेन) अपनी व्याप्ति से (सर्वान्) सब (रक्षः) राक्षसों को (अज) हटा दे और (नाशय) नाश करदे ॥२॥
Connotation: - जो मनुष्य परमेश्वर पर विश्वास करके पुरुषार्थ करते हैं, वे ही संसार को सुख देते हैं। [अजशृङ्गी एक औषध भी है] ॥२॥ इन मन्त्रों के साथ अ० का० २ सू० २ का मिलान् करो ॥
Footnote: २−(त्वया) (वयम्) (अप्सरसः) अ० २।२।३। सरतेरप्पूर्वादसिः। उ० ४।२३७। इति अप्+सृ गतौ-असि। अप्सु आकाशे, जले प्राणेषु प्रजासु च सरणशीलाः शक्तीः (गन्धर्वान्) अ० २।१।२। विद्याधारकान् पृथिवीधारकान् वा गुणान् (चातयामहे) चते याचने, भ्वा०। अत्र चुरादिः। याचामहे (अजशृङ्गि) अजो जीवात्मा-अ० ४।१४।१। शृङ्गम्-अ० २।३२।६। शॄ हिंसायाम्-गन्, स च कित् नुट् च। ङीप्। अजस्य जीवात्मनः शृङ्गं दुःखनाशनं यस्याः सा शक्तिः परमेश्वरः तत्सम्बुद्धौ अजशृङ्गीति ओषधिविशेषोऽप्यस्ति (अज) प्रक्षिप (रक्षः) रक्ष पालने-अपादाने क्विप्। राक्षसान् (सर्वान्) (गन्धेन) गन्ध गतिहिंसायाचनेषु-अच्। स्वव्याप्त्या (नाशय) ॥