Go To Mantra
Viewed 126 times

श्वेवैकः॑ क॒पिरि॒वैकः॑ कुमा॒रः स॑र्वकेश॒कः। प्रि॒यो दृ॒श इ॑व भू॒त्वा ग॑न्ध॒र्वः स॑चते॒ स्त्रिय॑स्तमि॒तो ना॑शयामसि॒ ब्रह्म॑णा वी॒र्या॑वता ॥

Mantra Audio
Pad Path

श्वाऽइव । एक: । कपि:ऽइव । एक: । कुमार: । सर्वऽकेशक: । प्रिय: । दृशेऽइव । भूत्वा ।गन्धर्व: । सचते । स्त्रिय: । तम् । इत: । नाशयामसि । ब्रह्मणा । वीर्यवता ॥३७.११॥

Atharvaveda » Kand:4» Sukta:37» Paryayah:0» Mantra:11


PANDIT KSHEMKARANDAS TRIVEDI

गन्धर्व और अप्सराओं के गुणों का उपदेश।

Word-Meaning: - (एकः एव) एक ही परमेश्वर (श्वा) गतिशील वा वृद्धिशील है, (एकः इव) एक ही (कपिः) कंपानेवाला वा क्रोधशील, (कुमारः) कामनायोग्य, (सर्वकेशकः) सर्वप्रकाशक है। (प्रियः इव) प्रिय ही परमेश्वर (गन्धर्वः) वेदवाणी वा पृथिवी का धारण करनेवाला (भूत्वा) होकर (दृशे) सबके देखने के लिये (स्त्रियः) आपस में संगति रखनेवाले समूहों में (सचते) मिला रहता है। (वीर्यावता) उस सामर्थ्यवाले (ब्रह्मणा) परब्रह्म के साथ (तम्) चोट करनेवालो चोर को (इतः) यहाँ से (नाशयामसि) हम नाश करते हैं ॥११॥
Connotation: - परमात्मा को सर्वद्रष्टा आदि गुणविशिष्ट जानकर मनुष्य ज्ञानपूर्वक अपने दुष्कर्मों का नाश करें ॥११॥
Footnote: ११−(श्वा) श्वन्नुक्षन्०। उ० १।१५९। इति टुओश्वि गतिवृद्ध्योः कनिन्। श्वाऽऽशुयायी शवतेर्वास्याद् गतिकर्मणः श्वसितेर्वा-निरु० ३।१८। गतिशीलः। वृद्धिशीलः (इव) अवधारणे (एकः) अद्वितीयः (कपिः) कुण्ठिकम्योर्नलोपश्च। ४।१४४। इति कपि चलने-ह। कम्पते क्रुध्यतिकर्मा-निघ० २।१२। कम्पयिता। क्रोधशीलः (कुमारः) कमेः किदुच्चोपधायाः। उ० ३।१३८। इति कमु कान्तौ−आरन्। कमनीयः (सर्वकेशकः) काशृ दीप्तौ-वुन्। अकारस्य एकारः। केशी केशा रश्मयस्तैस्तद्वान् भवति काशनाद् वा प्रकाशनाद्वा, निरु० १२।२५। सर्वप्रकाशकः (प्रियः) प्रीतिकरः (दृशे) अ० १।६।३। द्रष्टुम्। सर्वदर्शनाय (भूत्वा) (गन्धर्वः) पृथिव्यादिधारकः परमेश्वरः (स्त्रियः) अ० १।८।१। स्त्यै संघाते ड्रट्, ङीप्। सर्वाः संहतीः। समूहान् (तम्) तन आघाते-ड। तानयतीति तः। आहन्तारं चोरम् (इतः) अस्मात् स्थानात् (नाशयामसि) नाशयामः (ब्रह्मणा) परमेश्वरेण सह (वीर्यावता) अतिशयसामर्थ्ययुक्तेन ॥