Go To Mantra
Viewed 160 times

न पि॑शा॒चैः सं श॑क्नोमि॒ न स्ते॒नैर्न व॑न॒र्गुभिः॑। पि॑शा॒चास्तस्मा॑न्नश्यन्ति॒ यम॒हं ग्राम॑मावि॒शे ॥

Mantra Audio
Pad Path

न । पिशाचै: । सम् । शक्नोमि । न । स्तेनै: । न । वनर्गुऽभि: ।पिशाचा: । तस्मात् । नश्यन्ति । यम् । अहम् । ग्रामम् । आऽविशे ॥३६.७॥

Atharvaveda » Kand:4» Sukta:36» Paryayah:0» Mantra:7


PANDIT KSHEMKARANDAS TRIVEDI

राजा के धर्म का उपदेश।

Word-Meaning: - (न) न तो (पिशाचैः) पिशाचों के साथ, (न) न (स्तेनैः) चोरों के साथ, और (न) न (वनर्गुभिः) वनचर डाकुओं के साथ (सम् शक्नोमि) रह सकता हूँ। (यम्) जिस (ग्रामम्) ग्राम में (अहम्) मैं (आविशे) घुसता हूँ, (पिशाचाः) पिशाच लोग (तस्मात्) उस स्थान से (नश्यन्ति) भाग जाते हैं ॥७॥
Connotation: - राजा प्रबन्ध करे कि बस्तियों में हिंसक चोर आदि लूट-खसोट न करें ॥७॥
Footnote: ७−(न) निषेधे (पिशाचैः) पिशिताशिभिः (सम्) संवस्तुम् (शक्नोमि) शक्तो भवामि (स्तेनैः) चौरैः (वनर्गुभिः) मृगय्वादयश्च। उ० १।३७। इति वन+गम्लृ गतौ-डु रुडागमः। स्तेननाम-निघ० ३।२४। वनर्गू वनगामिनौ-निरु० ३।१४। वनचरैः। दस्युभिः (पिशाचाः) पिशिताशनाः (तस्मात्) ग्रामात् (नश्यन्ति) अदृष्टा भवन्ति पलायन्ते (यम्) (अहम्) (ग्रामम्) अ० ४।७।५। वसतिम् (आविशे) प्रविशामि ॥