Go To Mantra
Viewed 157 times

अव॑ बाधे द्वि॒षन्तं॑ देवपी॒युं स॒पत्ना॒ ये मेऽप॑ ते भवन्तु। ब्र॑ह्मौद॒नं वि॑श्व॒जितं॑ पचामि शृ॒ण्वन्तु॑ मे श्र॒द्दधा॑नस्य दे॒वाः ॥

Mantra Audio
Pad Path

अव । बाधे । द्विषन्तम् । देवऽपीयुम् । सऽपत्ना: । ये । मे । अप । ते । भवन्तु । ब्रह्मऽओदनम् । विश्वऽजितम् । पचामि । शृण्वन्तु । मे । श्रत्ऽदधानस्य । देवा: ॥३५.७॥

Atharvaveda » Kand:4» Sukta:35» Paryayah:0» Mantra:7


PANDIT KSHEMKARANDAS TRIVEDI

ब्रह्मविद्या का उपदेश।

Word-Meaning: - (द्विषन्तम्) द्वेष करनेवाले (देवपीयुम्) देवताओं के हिंसक को (अव बाधे) मैं हटाता हूँ। (ये) जो (मे) मेरे (सपत्नाः) प्रतियोगी हैं, (ते) वे (अप भवन्तु) हट जावें। (विश्वजितम्) संसार के जीतनेवाले (ब्रह्मौदनम्) सबसे बड़े सींचनेवाले वा अन्नरूप परमात्मा को (पचामि) पक्का [हृदय में दृढ़] करता हूँ। (देवाः) व्यवहारकुशल विद्वान् लोग (श्रद्दधानस्य) श्रद्धा रखनेवाले (मे) मेरी [वार्ता] (शृण्वन्तु) सुनें ॥७॥
Connotation: - मनुष्य जगदीश्वर में पूरी भक्ति करके पुरुषार्थपूर्वक अपने सब विघ्नों को हटा कर आनन्द भोगें ॥७॥ इति सप्तमोऽनुवाकः ॥
Footnote: ७−(अव बाधे) अपवारयामि (द्विषन्तम्) हिंसन्तम् (देवपीयुम्) पीयतिर्हिंसाकर्मा-निरु० ४।२५। खरुशङ्कुपीयु०। उ० १।३६। इति पीयतेः-कु। देवानां हिंसकम् (सपत्नाः) अ० १।९।२। शत्रवः (ये) (मे) मम (अपभवन्तु) दूरे गच्छन्तु (ते) शत्रवः (ब्रह्मौदनम्) ओदन इति व्याख्यातम्-सू० ३४ म० १। प्रवृद्धं सेचकं प्रवर्धकम् अन्नरूपं वा परमात्मानम् (विश्वजितम्) सर्वस्य जेतारम् (पचामि) परिपक्वं दृढं करोमि (शृण्वन्तु) आकर्णयन्तु (मे) मम वाक्यम् (श्रद्दधानस्य) श्रद्धाधारकस्य (देवाः) व्यवहारिणो विद्वांसः ॥