Go To Mantra

यमो॑द॒नं प्र॑थम॒जा ऋ॒तस्य॑ प्र॒जाप॑ति॒स्तप॑सा ब्र॒ह्मणेऽप॑चत्। यो लो॒कानां॒ विधृ॑ति॒र्नाभि॒रेषा॒त्तेनौ॑द॒नेनाति॑ तराणि मृ॒त्युम् ॥

Mantra Audio
Pad Path

यम् । ओदनम् । प्रथमऽजा: । ऋतस्य । प्रजाऽपति: । तपसा । ब्रह्मणे । अपचत् । य: । लोकानाम् । विऽधृति: । न । अभिऽरेषात् । तेन । ओदनेन । अति । तराणि । मृत्युम् ॥३५.१॥

Atharvaveda » Kand:4» Sukta:35» Paryayah:0» Mantra:1


Reads times

PANDIT KSHEMKARANDAS TRIVEDI

ब्रह्मविद्या का उपदेश।

Word-Meaning: - (ऋतस्य) सत्य के (यम्) जिस (ओदनम्) वृद्धि करनेवाले परमात्मा को (प्रथमजाः) प्रख्यात पुरुषों में उत्पन्न हुए, (प्रजापतिः) प्रजापालक योगी जन ने (तपसा) अपने तप, सामर्थ्य से (ब्रह्मणे) ब्रह्म की प्राप्ति के लिये (अपचत्) परिपक्व अर्थात् हृदय में दृढ़ किया है। (यः) जो परमात्मा (लोकानाम्) सब लोकों का (विधृतिः) विधाता (न) कभी नहीं (अभिरेषात्) घटता है, (तेन) उस (ओदनेन) बढ़ानेवाले वा अन्नरूप परमात्मा के साथ (मृत्युम्) मृत्यु के कारण [निरुत्साह आदि दोष] को (अति=अतीत्य) लाँघकर (तराणि) मैं तर जाऊँ ॥१॥
Connotation: - जिस परमात्मा को ऋषि मुनि महात्मा लोग साक्षात् करते चले आये हैं, उसी के गुणों को हम जानकर पुरुषार्थ के साथ अपने जीवन को सुधारें ॥१॥
Footnote: १−(यम्) (ओदनम्) सू० ३४। म० १। सेचकं प्रवर्धकं वा परमात्मानम् (प्रथमजाः) प्रथमेषु श्रेष्ठपुरुषेषु जातः (ऋतस्य) सत्यस्य परब्रह्मरूपस्य (प्रजापतिः) प्रजानां पालको योगिजनः (तपसा) स्वसामर्थ्येन (ब्रह्मणे) ब्रह्मप्राप्तये (अपचत्) पक्वं हृदये दृढं कृतवान् (यः) ओदनः (लोकानाम्) ब्रह्माण्डानाम् (विधृतिः) विधारयिता (न) निषेधे (अभिरेषात्) रिष हिंसायाम्-लडर्थे लेट्, कर्मण्यर्थे। रेष्यते। नश्यति (तेन) (ओदनेन) सेचकेन प्रवर्धकेन अन्नरूपेण वा परमात्मना (अति) अतीत्य (तराणि) पारं गच्छानि प्राप्नवानि (मृत्युम्) मरणकारणं निरुत्साहम् ॥