Go To Mantra
Viewed 155 times

इ॒ममो॑द॒नं नि द॑धे ब्राह्म॒णेषु॑ विष्टा॒रिणं॑ लोक॒जितं॑ स्व॒र्गम्। स मे॒ मा क्षे॑ष्ट स्व॒धया॒ पिन्व॑मानो वि॒श्वरू॑पा धे॒नुः का॑म॒दुघा॑ मे अस्तु ॥

Mantra Audio
Pad Path

इमम् । ओदनम् । नि । दधे । ब्राह्मणेषु । विष्टारिणम् । लोकऽजितम् । स्व:ऽगम् । स: । मे । मा । क्षेष्ट । स्वधया । पिन्वमान: । विश्वऽरूपा । धेनु: । कामऽदुघा । मे । अस्तु ॥३४.८॥

Atharvaveda » Kand:4» Sukta:34» Paryayah:0» Mantra:8


PANDIT KSHEMKARANDAS TRIVEDI

ब्रह्मविद्या का उपदेश।

Word-Meaning: - (ब्राह्मणेषु) ब्रह्मज्ञानियों के बीच (विष्टारिणम्) विस्तारवाले (लोकजितम्) सब लोक के जीतनेवाले (स्वर्गम्) सुखस्वरूप (इमम्) इस (ओदनम्) सींचने वा बढ़ानेवाला वा अन्नरूप परमात्मा को (नि) निरन्तर (दधे) धरता हूँ। (स्वधया) अपनी धारण शक्ति से (पिन्वमानः) बढ़ता हुआ (सः) वह ईश्वर (मे) मेरे लिये (मा क्षेष्ट) कभी न घटे। (विश्वरूपाः) सब अङ्गों से सिद्ध (धेनुः) यह तृप्त करनेवाली वेदवाणी (मे) मेरे लिये (कामदुघा) उत्तम कामनाओं की पूर्ण करनेवाली (अस्तु) होवे ॥८॥
Connotation: - ब्रह्मज्ञानी महात्मा लोग परमात्मा की महिमा को साक्षात् करके सुखी होते हैं, सब मनुष्य परमकल्याणी वेदवाणी को प्राप्त कर उस जगदीश्वर के ज्ञान से सदा आनन्द भोगें ॥८॥
Footnote: ८−(इमम्) निर्दिष्टम् (ओदनम्) सेचनशीलं प्रवर्धकम् अन्नरूपं वा परमात्मानं (नि) नितराम् (दधे) धरामि (ब्राह्मणेषु) अ० ४।६।१। वेदवेत्तृषु पण्डितेषु (विष्टारिणम्) म० १। विस्तारवन्तम् (लोकजितम्) सर्वलोकजेतारम् (स्वर्गम्) सुष्ठु अर्जनीयं सुखस्वरूपम् (सः) ओदनः (मे) मह्यम् (मा क्षेष्ट) क्षि क्षये, माङि लुङ्। क्षयं मा प्राप्नोतु (स्वधया) स्वधारणशक्त्या। (पिन्वमानः) वर्धमानः (विश्वरूपा) सर्वाङ्गसिद्धा (धेनुः) अ० ३।१०।१। वाङ्नाम-निघ० १।१२। तर्पयित्री वेदवाणी (कामदुघा) दुहः कब्घश्च। पा० ३।२।७०। इति काम+दुह प्रपूरणे-कप्, हस्य घः। उत्तमकामानां दोग्ध्री प्रपूरयित्री। अभीष्टसम्पादयित्री (मे) मह्यम् (अस्तु) ॥