Go To Mantra
Viewed 236 times

वि॑ष्टा॒रिण॑मोद॒नं ये पच॑न्ति॒ नैना॒नव॑र्तिः सचते क॒दा च॒न। आस्ते॑ य॒म उप॑ याति दे॒वान्त्सं ग॑न्ध॒र्वैर्म॑दते सो॒म्येभिः॑ ॥

Mantra Audio
Pad Path

विष्टारिणम् । ओदनम् । ये । पचन्ति । न । एनान् । अवर्ति: । सचते । कदा । चन । आस्ते । यमे । उप । याति । देवान् । सम् । गन्धर्वै: । मदते । सोम्येभि: ॥३४.३॥

Atharvaveda » Kand:4» Sukta:34» Paryayah:0» Mantra:3


PANDIT KSHEMKARANDAS TRIVEDI

ब्रह्मविद्या का उपदेश।

Word-Meaning: - (ये) जो महात्मा लोग (विष्टारिणम्) विस्तारवान् (ओदनम्) सेचनसमर्थ वा अन्नरूप परमात्मा को [हृदय में] (पचन्ति) परिपक्व करते हैं, (एनान्) इन लोगों को (अवर्त्तिः) दरिद्रता (कदा चन) कभी भी (न) नहीं (सचते) मिलती है। [जो पुरुष] (यमे) नियम वा न्यायकारी परमात्मा में (आस्ते) रहता है, [वह] (देवान्) उत्तम गुणों को (उप) अधिक-अधिक (याति) पाता है, और (गन्धर्वैः) पृथिवी आदि लोकों वा वेदवाणियों को धारण करनेवाले (सोम्येभिः) सोम अर्थात् ऐश्वर्ययोग्य महात्माओं से (सम्) मिल कर (मदते) आनन्द भोगता है ॥३॥
Connotation: - योगी जन परमात्मा में श्रद्धा रखकर सदा उदारचित्त रहते हैं, क्योंकि जितेन्द्रिय पुरुष ही विद्वानों के सत्सङ्ग से उत्तम-उत्तम गुण पाकर आनन्द भोगते हैं ॥३॥
Footnote: ३−(विष्टारिणम्) म० १। विस्तारवन्तम् (ओदनम्) म० १। सेचनशीलम् अन्नरूपं वा परमात्मानम् (ये) महात्मानो योगिनः (पचन्ति) पक्वं श्रद्धया दृढं कुर्वन्ति (न) निषेधे (एनान्) एतान् योगिनः (अवर्तिः) हृपिषिरुहिवृति०। उ० ४।११९। इति वृतु वर्तने-इन्। वर्तिर्वृत्तिः, जीविका। तदभावः अवर्तिः। दारिद्र्यम् (सचते) समवैति यः (कदा चन) कदाचिदपि (आस्ते) तिष्ठति (यमे) नियमे न्यायकारिणि परमात्मनि वा (उप) अधिकम् (याति) प्राप्नोति सः (देवान्) दिव्यगुणान् (सम्) सह भूत्वा (गन्धर्वैः) अ० २।१।२। गवां पृथिव्यादिलोकानां वेदवाणीनां वा धारकैः (मदते) हृष्यति (सोम्यैः) सोमार्हैः ऐश्वर्ययोग्यैः ॥