Go To Mantra
Viewed 178 times

अ॑भा॒गः सन्नप॒ परे॑तो अस्मि॒ तव॒ क्रत्वा॑ तवि॒षस्य॑ प्रचेतः। तं त्वा॑ मन्यो अक्र॒तुर्जि॑हीडा॒हं स्वा त॒नूर्ब॑ल॒दावा॑ न॒ एहि॑ ॥

Mantra Audio
Pad Path

अभाग: । सन् । अप । पराऽइत: । अस्मि । तव । क्रत्वा । तविषस्य । प्रऽचेत: । तम् । त्वा । मन्यो इति । अक्रतु: । जिहीड । अहम् । स्वा । तनू: । बलऽदावा । न: । आ । इहि ॥३२.५॥

Atharvaveda » Kand:4» Sukta:32» Paryayah:0» Mantra:5


PANDIT KSHEMKARANDAS TRIVEDI

संग्राम में जय पाने का उपदेश।

Word-Meaning: - (प्रचेतः) हे उत्तमज्ञानवाले ! मैं (अभागः सन्) अभागा होकर (तव तविषस्य) तुझ बलवान् के (क्रत्वा) कर्म वा बुद्धि से (अप=अपेत्य) हटकर (परेतः) दूर पड़ा हुआ (अस्मि) हूँ। (मन्यो) हे क्रोध (अक्रतुः) बुद्धिहीन वा कर्महीन (अहम्) मैंने (तम् त्वा) उस तुझको (जिहीड) क्रुद्ध कर दिया है, (बलदावा) बलदाता तू (स्वा तनूः) अपने स्वरूप से (नः) हमको (आ इहि) प्राप्त हो ॥५॥
Connotation: - अनीतिज्ञ पुरुष यथावत् क्रोध न करके दरिद्र और बुद्धिहीन हो जाते हैं, इससे मनुष्यों को यथावत् वर्तना चाहिये ॥५॥
Footnote: ५−(अभागः) भगानामैश्वर्याणां समूहः-इति भग-अण्। ऐश्वर्यसमूहरहितः। सर्वथा निर्धनः (सन्) वर्तमानः सन् (अप) अपेत्य (परेतः) परागतः (अस्मि) वर्ते (तव) (क्रत्वा) अ० ४।३१।६। कर्मणा प्रज्ञया वा (तविषस्य) अ० ४।१५।२। महतः पूजनीयस्य (प्रचेतः) हे प्रकृष्टज्ञान (तम्) (त्वा) त्वाम् (अक्रतुः) अप्रज्ञः, बुद्धिहीनः कर्महीनो वा (जिहीड) हेडृ अनादरे क्रोधे च। लिटि छान्दसं रूपम्। हेडते, क्रुध्यतिकर्मा-निघ० २।१२। जिहीडे क्रुद्धं कृतवानस्मि (स्वा) सुपां सुलुक्०। पा० ७।१।३९। विभक्तेः सुः। स्वया आत्मीयया (तनूः) उक्तसूत्रेण विभक्तेः सुः। तन्वा। स्वरूपेण (बलदावा) आतो मनिन्क्वनि०। पा० ३।२।७४। इति बल+डुदाञ् दाने-वनिप्। बलस्य दाता (नः) अस्मान् (आ इहि) आगच्छ ॥