Go To Mantra
Viewed 151 times

वि॑जेष॒कृदिन्द्र॑ इवानवब्र॒वोस्माकं॑ मन्यो अधि॒पा भ॑वे॒ह। प्रि॒यं ते॒ नाम॑ सहुरे गृणीमसि वि॒द्मा तमुत्सं॒ यत॑ आब॒भूथ॑ ॥

Mantra Audio
Pad Path

विजेषऽकृत् । इन्द्र:ऽइव । अनवऽब्रव: । अस्माकम् । मन्यो इति । अधिऽपा: । भव । इह । प्रियम् । ते । नाम । सहुरे । गृणीमसि । विद्म । तम् । उत्सम् । यत: । आऽबभूथ ॥३१.५॥

Atharvaveda » Kand:4» Sukta:31» Paryayah:0» Mantra:5


PANDIT KSHEMKARANDAS TRIVEDI

संग्राम में जय पाने का उपदेश।

Word-Meaning: - (मन्यो) हे क्रोध ! (अनवब्रवः) नीच वचन न बोलनेवाला, (विजेषकृत्) विजय करनेवाला तू (इन्द्रः इव) बड़े प्रतापी पुरुष के समान (इह) यहाँ पर (अस्माकम्) हमारा (अधिपाः) बड़ा स्वामी (भव) हो। (सहुरे) हे शक्तिमान् (ते) तेरा (प्रियम्) प्रिय (नाम) नाम (गृणीमसि) हम सराहते हैं। (तम्) उस (उत्सम्) स्रोता [परमेश्वर को] (विद्म) हम जानते हैं (यतः) जिससे (आबभूथ) तू आकर प्रकट हुआ है ॥५॥
Connotation: - जो मनुष्य अदीन वचन बोलते हैं, वे ही विजयी होकर कीर्त्ति पाते हैं ॥५॥
Footnote: ५−(विजेषकृत्) वृतॄवदि०। उ० ३।६२। इति जि जये-स। विजेषस्य विजयस्य कर्ता (इन्द्रः इव) प्रतापी पुरुषो यथा (अनवब्रवः) अन्+अव+ब्रूञ् व्यक्तायां वाचि-पचाद्यच्। निपातनात्साधुः। अनवनतवचनः। उन्नतवचनः (अस्माकम्) (मन्यो) हे क्रोध (अधिपाः) पा रक्षणे-विच्। अधिकं पालकः (भव) (इह) अत्र संग्रामे (प्रियम्) प्रीतिकरम् (ते) तव (नाम) (सहुरे) म० २। हे शक्तिमन् (गृणीमसि) गॄ शब्दे। गृणीमः स्तुमः (विद्म) जानीमः (तम्) (उत्सम्) अ० ३।२४।४। निर्झरम्। कूपम्। परमेश्वरमित्यर्थः (यतः) यस्मात्स्थानात् (आ बभूथ) आगत्य प्रादुर्बभूविथ ॥