त्वया॑ मन्यो स॒रथ॑मारु॒जन्तो॒ हर्ष॑माणा हृषि॒तासो॑ मरुत्वन्। ति॒ग्मेष॑व॒ आयु॑धा सं॒शिशा॑ना॒ उप॒ प्र य॑न्तु॒ नरो॑ अ॒ग्निरू॑पाः ॥
त्वया । मन्यो इति । सऽरथम् । आऽरुजन्त: । हर्षमाणा: । हृषितास: । मरुत्वन् । तिग्मऽइषव: । आयुधा । सम्ऽशिशाना: । उप । प्र । यन्तु । नर: । अग्निऽरूपा: ॥३१.१॥
PANDIT KSHEMKARANDAS TRIVEDI
संग्राम में जय पाने का उपदेश।
