Go To Mantra
Viewed 165 times

अ॒हं सु॑वे पि॒तर॑मस्य मू॒र्धन्मम॒ योनि॑र॒प्स्वन्तः स॑मु॒द्रे। ततो॒ वि ति॑ष्ठे॒ भुव॑नानि॒ विश्वो॒तामूं द्यां व॒र्ष्मणोप॑ स्पृशामि ॥

Mantra Audio
Pad Path

अहम् । सुवे । पितरम् । अस्य । मूर्धन् । मम । योनि: । अप्ऽसु । अन्त: । समुद्रे । तत: । वि । तिष्ठे । भुवनानि । विश्वा । उत । अमूम् । द्याम् । वर्ष्मणा । उप । स्पृशामि ॥ ३०.७॥

Atharvaveda » Kand:4» Sukta:30» Paryayah:0» Mantra:7


PANDIT KSHEMKARANDAS TRIVEDI

परमेश्वर के गुणों का उपदेश।

Word-Meaning: - (अहम्) मैं (अस्य) इस जगत् के (मूर्धन्) नियम के निमित्त (पितरम्) पालन करनेवाले गुण को (सुवे) उत्पन्न करता हूँ। (मम) मेरा (योनिः) घर (समुद्रे) अन्तरिक्ष में वर्तमान (अप्सुअन्तः) व्यापनशील रचनाओं के भीतर है। (ततः) इसीसे (विश्वा) सब (भुवनानि) प्राणियों में (वि तिष्ठे) व्यापक होकर वर्तमान हूँ (उत) और (अमूम् द्याम्) उस प्रकाशमान सूर्य को (वर्ष्मणा) अपने ऐश्वर्य से (उप स्पृशामि) छूता रहता हूँ ॥७॥
Connotation: - परमेश्वर सब में व्यापक रहकर सबका पालन कर्ता, और नियन्ता और उपास्य है ॥७॥
Footnote: ७−(अहम्) परमेश्वरः (सुवे) षूङ् प्राणिगर्भविमोचने। जनयामि (पितरम्) पालकं गुणं (अस्य) दृश्यमानस्य। जगतः (मूर्धन्) अ० ३।६।६। मुर्व बन्धने-कनिन्। मूर्धनि। बन्धने। नियमे निमित्ते (मम) (योनिः) गृहम्-निघ० ३।४। (अप्सु) व्यापनशीलासु प्रकृतिरचनासु (अन्तः) मध्ये (समुद्रे) अ० १।३।८। समुद्रवन्त्यस्माद् भूतानि। अन्तरिक्षो-निघ० १।३। (ततः) तस्मात्कारणात् (वितिष्ठे) समवप्रविभ्यः स्थः। पा० १।३।२२। इति आत्मनेपदम्। विविधं व्याप्य तिष्ठामि (भुवनानि) भूतजातानि (विश्वा) विश्वानि सर्वाणि (अमूम्) विप्रकृष्टाम् (द्याम्) प्रकाशमानं सूर्यम् (वर्ष्मणा) अ० ३।४।२। वृषु प्रजननैश्ययोः-मनिन्। स्वैश्वर्येण (उप स्पृशामि) व्याप्नोमि-इत्यर्थः ॥