Go To Mantra

मया॒ सोऽन्न॑मत्ति॒ यो वि॒पश्य॑ति॒ यः प्रा॒णति॒ य ईं॑ शृ॒णोत्यु॒क्तम्। अ॑म॒न्तवो॒ मां त उप॑ क्षियन्ति श्रु॒धि श्रु॑त श्रु॒द्धेयं॑ ते वदामि ॥

Mantra Audio
Pad Path

मया । स: । अन्नम् । अत्ति । य: । विऽपश्यति । य: । प्राणति । य: । ईम् । शृणोति । उक्तम् । अमन्तव: । माम् । ते । उप । क्षियन्ति । श्रुधि । श्रुत । श्रत्ऽधेयम् । ते । वदामि ॥३०.४॥

Atharvaveda » Kand:4» Sukta:30» Paryayah:0» Mantra:4


Reads 117 times

PANDIT KSHEMKARANDAS TRIVEDI

परमेश्वर के गुणों का उपदेश।

Word-Meaning: - (मया) मेरे द्वारा ही (सः) वह (अन्नम्) (अत्ति) खाता है (यः) जो कोई (विपश्यति) विशेष करके देखता है, (यः) जो (प्राणति) श्वास लेता है और (यः) जो (ईम्) यह (उक्तम्) वचन (शृणोति) सुनता है। (माम्) मुझे (अमन्तवः) न जाननेवाले (ते) वे पुरुष (उप) हीन होकर (क्षियन्ति) नष्ट हो जाते हैं। (श्रुत) हे सुनने में समर्थ जीव ! (श्रुधि) तू सुन, (ते) तुझसे (श्रद्धेयम्) आदरयोग्य सत्य (वदामि) बताता हूँ ॥४॥
Connotation: - विवेकी पुरुष परमात्मा को जानकर आनन्द, और अज्ञानी नास्तिक उससे विमुख होकर दुःख भोगते हैं। यह परमेश्वर का उपदेश है ॥४॥
Footnote: ४−(मया) मम द्वारा (सः) पुरुषार्थी (अन्नम्) अदनीयम्। जीवनसाधनं वा (अत्ति) भक्षयति (यः) (वि पश्यति) विशेषेणावलोकयति (प्राणति) शपः प्रयोगश्छान्दसः। प्राणिति प्रश्वसिति (ईम्) इदम् (शृणोति) श्रोत्रेण गृह्णाति (उक्तम्) वचनम् (अमन्तवः) कमिमनिजनि०। उ० १।७३। इति नञ्+मनु अवबोधने-तु। अजानन्तः (माम्) परमेश्वरम्। न लोकाव्यय०। पा० २।३।६७। इति द्वितीया (ते) प्रसिद्धा मूर्खाः (उप) हीने (क्षियन्ति) क्षि क्षये। नश्यन्ति (श्रुधि) शृणु (श्रुत) श्रुतं श्रवणं यस्यास्तीति श्रुतः। श्रुत-अर्श आद्यच्। हे श्रवणसमर्थ (श्रद्धेयम्) श्रत्, सत्यम्-निघ० ३।१०। अचो यत्। पा० ३।१।९७। इति श्रत्+धाञो यत्। ईद्यति। या० ६।४।६५। इति ईकारः। श्रद्धातव्यम्। आदरणीयं सत्यम् (ते) तुभ्यम् (वदामि) उपदिशामि ॥