Go To Mantra

उदि॒तस्त्रयो॑ अक्रमन्व्या॒घ्रः पुरु॑षो॒ वृकः॑। हिरु॒ग्घि यन्ति॒ सिन्ध॑वो॒ हिरु॑ग्दे॒वो वन॒स्पति॒र्हिरु॑ङ्नमन्तु॒ शत्र॑वः ॥

Mantra Audio
Pad Path

उत् । इत: । त्रय: । अक्रमन् । व्याघ्र: । पुरुष: । वृक: । हिरुक् । हि । यन्ति । सिन्धव: । हिरुक् । देव: । वनस्पति: । हिरुक् । नमन्तु । शत्रव: ॥३.१॥

Atharvaveda » Kand:4» Sukta:3» Paryayah:0» Mantra:1


Reads 68 times

PANDIT KSHEMKARANDAS TRIVEDI

वैरी के नाश का उपदेश।

Word-Meaning: - (त्रयः) तीनों, (व्याघ्रः) सूँघकर पकड़नेवाला, बाघ, (पुरुषः) आगे बढ़नेवाला, [चोर] मनुष्य, और (वृकः) हुंडार वा भेड़िया (इतः) यहाँ से (उदक्रमन्) फलांगकर निकल गये। (सिन्धवः) नदियाँ (हि) अवश्य (हिरुक्) नीचे को (यन्ति) जाती हैं, (देवः) दिव्य गुणवाला (वनस्पतिः) सेवकों का रक्षक, वृक्ष भी (हिरुक्) नीचे को, [इसी प्रकार] (शात्रवः) हमारे वैरी (हिरुक्) नीचे को (नमन्तु) झुकें ॥१॥
Connotation: - मनुष्य प्रयत्न करे कि हिंसक मनुष्य और अन्य प्राणी वशीभूत होकर झुके रहें, जैसे नदी और वृक्ष नीचे को झुकते हैं ॥१॥
Footnote: १−(उत्) उपसर्गाः क्रियायोगे (इतः) अस्मात् स्थानात् (त्रयः) त्रिसंख्यकाः (उदक्रमन्) क्रमु पादविक्षेपे-लङ्। क्रमः परस्मैपदेषु। पा० ७।३।७६। इति दीर्घाभावश्छान्दसः। उदक्रामन्। उत्क्रान्ता उत्थिता अभवन् (व्याघ्रः) आतश्चोपसर्गे। पा० ३।१।१६। इति वि+आङ्+घ्रा गन्धोपादाने क। व्याजिघ्रति विशिष्टाघ्राणमात्रेण प्राणिनो हन्तीति। हिंसकजन्तुविशेषः (पुरुषः) अ० १।१६।४। पुर-कुषन्। पुरति अग्रेऽगच्छतीति। चोरः। परमेणोत तस्करः। इति उत्तरत्र म० २, तस्यैवानुकीर्तनात् (वृकः) सृवृभूशुषिमुषिभ्यः कक्। इति वृञ् वरणे-कक्। यद्वा। वृक आदाने-क। कुक्कुरप्रमाणहरिणादिघ्नजन्तुविशेषः। हुण्डार इति भाषा (हिरुक्) हि गतौ-रुकक्। वर्जने। त्यागे। अधमे। विना। निर्णीतान्तर्हितनाम-निघ० ३।२५। अन्तर्हितम् (हि) प्रसिद्धौ (यन्ति) गच्छन्ति (सिन्धवः) स्यन्देः संम्प्रसारणं धश्च। उ० १।११। इति स्यन्दू प्रस्रवणे-उ। दस्य धः। सिन्धुः स्यन्दनात्-निरु० ९।२६। स्यन्दनशीला नद्यः (देवः) दिव्यगुणयुक्तः (वनस्पतिः) वनानां सेवकानां पाता रक्षकः। वृक्षः (नमन्तु) प्रह्वीभवन्तु (शत्रवः) शातनशीलाः। विरोधिनः ॥