Go To Mantra
Viewed 111 times

यौ मेधा॑तिथि॒मव॑थो॒ यौ त्रि॒शोकं॒ मित्रा॑वरुणावु॒शनां॑ का॒व्यं यौ। यौ गोत॑म॒मव॑थः॒ प्रोत मुद्ग॑लं॒ तौ नो॑ मुञ्चत॒मंह॑सः ॥

Mantra Audio
Pad Path

यौ । मेधऽअतिथिम् । अवथ: । यौ । त्रिऽशोकम् । मित्रावरुणै । उशनाम् । काव्यम् । यौ । यौ । गोतमम् । अवथ: । प्र । उत । मुद्गलम् । तौ न: । मुञ्चतम् । अंहस: ॥२९.६॥

Atharvaveda » Kand:4» Sukta:29» Paryayah:0» Mantra:6


PANDIT KSHEMKARANDAS TRIVEDI

पुरुषार्थ करने का उपदेश।

Word-Meaning: - (यौ) जो (मित्रावरुणौ) दिन रात वा प्राण और अपान तुम दोनों ! (मेधातिथिम्) धारणावती बुद्धि के नित्य प्राप्त करनेवाले को और (यौ) जो तुम दोनों (त्रिशोकम्) कायिक, वाचिक, और मानसिक तीन दोषों पर शोक करनेवाले को, और (यौ) जो तुम दोनों (उशनाम्) कामनायोग्य नीति को और (काव्यम्) बुद्धिमानों के कर्म को (अवथः) बचाते हो। (यौ) जो तुम दोनों (गोतमम्) अतिशय स्तुति करनेवाले वा विद्या की कामना करनेवाले को (उत) और (मुद्गलम्) मोद अर्थात् हर्ष देनेवाले को (प्र) अच्छे प्रकार (अवथः) बचाते हो। (तौ) वे तुम दोनों (नः) हमें (अंहसः) कष्ट से (मुञ्चतम्) छुड़ावो ॥—६॥
Connotation: - जो मनुष्य तपश्चर्या करके अपने समय और शारीरिक मानसिक शक्तियों का यथावत् उपयोग करते हैं, वे उत्तम नीति और कर्म प्राप्त करके आनन्दित होते हैं ॥—६॥
Footnote: ६−(यौ) युवाम् (मेधातिथिम्) षिद्भिदादिभ्योऽङ्। पा० ३।३।१०४। इति मेधृ वधहिंसासङ्गमेषु-अङ्। टाप्। धीर्धारणावती मेधा-इत्यमरः। ५।२। ऋतन्यञ्जिवन्यञ्ज्यर्पिमद्यत्यङ्गि०। उ० ४।२। इति अत सातत्यगमने-इथिन्। अततीति अतिथिः। मेधां धारणावतीं बुद्धिम् अतति निरन्तरं प्राप्नोति यः, तम्। (अवथः) (त्रिशोकम्) त्रिषु कायिकवाचिकमानसिकदोषेषु शोकः खेदो यस्य तम् (मित्रावरुणौ) अहोरात्रौ प्राणापानौ वा (उशनाम्) रञ्जतेः क्युन्। उ० २।७९। इति वश कान्तौ-क्युन्। टाप्। सम्प्रसारणं च। कमनीयां नीतिम् (काव्यम्) गुणवचनब्राह्मणादिभ्यः कर्मणि च। पा० ५।१।१२४। इति कवि-ष्यञ्। कवीनां मेधाविनां कर्म (गोतमम्) गो-तमप्। गौः स्तोता-निरु० ३।१६। अतिशयेन स्तोतारम्। यद्वा, गौः, वाङ्नाम-निघ० १।११। तमु काङ्क्षायाम् पचाद्यच्। गां वाचं विद्यां ताम्यति काङ्क्षति यस्तं विद्याकामम् (प्र उत) (मुद्गलम्) मुदिग्रोर्गग्गौ। उ० १।१२८। इति मुद हर्षे-गक्। ला दानादनयोः-क। मुद्गलो मुद्गवान् मुद्गिलो वा मदनङ्गिलतीति वा मदङ्गिलो वा मुदङ्गिलो वा निरु० ९।२४। मोदस्य हर्षस्य दातारम्। अन्यत् पूर्ववत् ॥—