यौ भ॒रद्वा॑ज॒मव॑थो॒ यौ गवि॑ष्ठिरं वि॒श्वामि॑त्रं वरुण मित्र॒ कुत्स॑म्। यौ क॒क्षीव॑न्त॒मव॑थः॒ प्रोत कण्वं॒ तौ नो॑ मुञ्चत॒मंह॑सः ॥
यौ । भरत्ऽवाजम् । अवथ: । यौ । गविष्ठिरम् । विश्वामित्रम् । वरुण । मित्र । कुत्सम् । यौ । कक्षीवन्तम् । अवथ: । प्र । उत । कण्वम् । तौ । न: । मुञ्चतम् । अंहस: ॥२९.५॥
PANDIT KSHEMKARANDAS TRIVEDI
पुरुषार्थ करने का उपदेश।
