Go To Mantra
Viewed 199 times

ययो॑रभ्य॒ध्व उ॒त यद्दू॒रे चि॒द्यौ वि॑दि॒तावि॑षु॒भृता॒मसि॑ष्ठौ। याव॒स्येशा॑थे द्वि॒पदो॒ यौ चतु॑ष्पद॒स्तौ नो॑ मुञ्चत॒मंह॑सः ॥

Mantra Audio
Pad Path

ययो: । अभिऽअध्वे । उत । यत् । दूरे । चित् । यौ । विदितौ । इषुऽभृताम् । असिष्ठौ । यौ । अस्य । ईशाथे इति । द्विऽपद: । यौ । चतु:ऽपद: । तौ । न: । मुञ्चतम् । अंहस:॥२८.२॥

Atharvaveda » Kand:4» Sukta:28» Paryayah:0» Mantra:2


PANDIT KSHEMKARANDAS TRIVEDI

परमेश्वर के गुणों का उपदेश।

Word-Meaning: - (ययोः) जिन दोनों का [वह सब है] (यत् चित्) जो कुछ (अभ्यध्वे) समीप में (उत) और (दूरे) दूर देश में है। (यौ) जो तुम दोनों (इषुभृताम्) हिंसाकारियों के (असिष्ठौ) अत्यन्त गिरानेवाले (विदितौ) विदित हो। (यौ) जो तुम दोनों (अस्य) इस (द्विपदः) दो पाये..... म० १ ॥२॥
Connotation: - परमेश्वर सर्वान्तर्यामी और शत्रुनाशक है, हम उसकी उपासना से सदा पुरुषार्थी रहें ॥२॥
Footnote: २−(ययोः) भवाशर्वयोः (अभ्यध्वे) अभि अध्वनः अभ्यध्वः। उपसर्गादध्वनः। पा० ५।४।८५। इति अच् समासान्तः। समीपदेशे (उत) अपि (यत् चित्) यत्किञ्चित् (दूरे) दूरदेशे (यौ) भवाशर्वौ (विदितौ) प्रज्ञातौ (इषुभृताम्) ईष हिंसायाम्-कु, ह्रस्वश्च। डुभृञ् धारणपोषणयोः-क्विप्-तुक् च। हिंसाधारकाणाम् (असिष्ठौ) तुश्छन्दसि। पा० ५।३।५९। इति असितृ-इष्ठन्। तुरिष्ठेमेयस्सु। पा० ६।४।१५४। इति तृलोपः। असितृतमौ। क्षेप्तृतमौ। अन्यत् पूर्ववत्-म० १ ॥