Go To Mantra

भवा॑शर्वौ म॒न्वे वां॒ तस्य॑ वित्तं॒ ययो॑र्वामि॒दं प्र॒दिशि॒ यद्वि॒रोच॑ते। याव॒स्येशा॑थे द्वि॒पदो॒ यौ चतु॑ष्पद॒स्तौ नो॑ मुञ्चत॒मंह॑सः ॥

Mantra Audio
Pad Path

भवाशर्वौ । मन्वे । वाम् । तस्य । वित्तम् । ययो: । वाम् । इदम् । प्रऽदिशि । यत् । विऽरोचते । यौ । अस्य । ईशाथे इति । द्विऽपद: । यौ । चतु:ऽपद: । तौ । न: । मुञ्चतम् । अंहस: ॥२८.१॥

Atharvaveda » Kand:4» Sukta:28» Paryayah:0» Mantra:1


Reads 104 times

PANDIT KSHEMKARANDAS TRIVEDI

परमेश्वर के गुणों का उपदेश।

Word-Meaning: - (भवाशर्वौ) हे सुख उत्पन्न करने हारे और शत्रुनाशक [परमेश्वर के गुणो !] (वाम्) तुम दोनों का (मन्वे) मैं मनन करता हूँ। (तस्य) उस [जगत्] का (वित्तम्) वे तुम दोनों ज्ञान रखते हो, (ययोः-वाम्) जिन तुम दोनों के (प्रदिशि) शासन में (इदम्) यह (यत्) जो कुछ जगत् (विरोचते) प्रकाशमान है। (यौ) जो तुम दोनों (अस्य) इस (द्विपदः) दो पाये समूह के और (यौ) जो तुम दोनों (चतुष्पदः) चौपाये संसार के (ईशाथे) ईश्वर हो, (तौ) वे तुम दोनों (नः) हमें (अंहसः) कष्ट से (मुञ्चतम्) छुड़ावो ॥१॥
Connotation: - परमेश्वर सर्वजनक सर्वशासक और सर्वज्ञ है, उसकी उपासना करके सब मनुष्य सुखी रहें ॥१॥ इस सूक्त में गुणों के वर्णन से गुणी अर्थात् ईश्वर का ग्रहण है ॥
Footnote: १−(भवाशर्वौ) भवत्युत्पद्यते सुखमस्मादिति भवः। सुखोत्पादको गुणः। कॄगॄशॄदॄभ्यो वः। उ० १।१५५। इति शॄ हिंसायां च। शत्रुनाशको गुणः। भवश्च शर्वश्च भवाशर्वौ परमेश्वरस्य गुणौ। देवताद्वन्द्वे च। पा० ६।३।२६। इति आनङ्। अस्मिन् सूक्ते गुणग्रहणेन गुणिग्रणम्। (मन्वे) मननं करोमि (वाम्) युवयोः (तस्य) जगतः (वित्तम्) लडर्थे लोट्। वित्थः। वेदनं ज्ञानं कुरुथः (ययोः) (वाम्) युवयोः (इदम्) दृश्यमानं गमनशीलं वा जगत् (प्रदिशि) प्रदेशने प्रशासने (यत्) यत्किञ्चित् (विरोचते) रुच दीप्तौ। प्रकाशते (यौ) (अस्य) वर्तमानस्य (ईशाथे) ईश्वरौ भवथः (द्विपदः) पादद्वयोपेतस्य प्राणिमात्रस्य (चतुष्पदः) पादचतुष्टयोपेतस्य गवादेः (तौ) भवाशर्वौ (नः) अस्मान् (मुञ्चतम्) मोचयतम् (अंहसः) कष्टात् ॥