Go To Mantra
Viewed 125 times

यदीदि॒दं म॑रुतो॒ मारु॑तेन॒ यदि॑ देवा॒ दैव्ये॑ने॒दृगार॑। यू॒यमी॑शिध्वे वसव॒स्तस्य॒ निष्कृ॑ते॒स्ते नो॑ मुञ्च॒न्त्वंह॑सः ॥

Mantra Audio
Pad Path

यदि । इत् । इदम् । मरुत: । मारुतेन । यदि । देवा: । दैव्येन । ईदृक् । आर । यूयम् । ईशिध्वे । वसव: । तस्य । निऽकृते : । ते । न: । मुञ्चन्तु । अंहस: ॥२७.६॥

Atharvaveda » Kand:4» Sukta:27» Paryayah:0» Mantra:6


PANDIT KSHEMKARANDAS TRIVEDI

पवन के गुणों का उपदेश।

Word-Meaning: - (देवाः) हे विजयशील (मरुतः) दोषनाशक वायुगण ! (यदि) यत्नशील (इदम्) चलता हुआ जगत् (इत्) निश्चय करके [तुम्हारे] (मारुतेन) दोषनाशक धर्म से और (दैव्येन) दिव्यपन से (ईदृक्) ऐसा (यदि) यत्नशील (आर) प्राप्त हुआ है। (वसवः) हे निवास करानेवाले ! (यूयम्) तुम (तस्य) उस जगत् के (निष्कृतेः) उद्धार के (ईशिध्वे) समर्थ होते हो। (ते) वे (नः) हमें (अंहसः) कष्ट से (मुञ्चन्तु) छुड़ावें ॥६॥
Connotation: - यह सब जगत् वायु के कारण चेष्टा करता हुआ उद्योगी रहता है, उस वायु के गुणों को जान कर सब मनुष्य प्रसन्न रहें ॥६॥
Footnote: ६−(यदि) सर्वधातुभ्य इन्। उ० ४।११८। इति यती प्रयत्ने-इन् तस्य दः। यत्नशीलम् (इत्) अवधारणे (इदम्) इण् गतौ दमुक्। एति गच्छतीति इदं जगत् (मरुतः) हे दीपनाशका वायवः (मारुतेन) तस्येदम्। पा० ४।३।१२०। इति मरुत्-भावेऽण्। मरुत्वेन मरुतो दोषनाशधर्मेण (यदि) यत्नशीलम् (देवाः) हे विजिगीषवः (दैव्येन) दिवि भवं दिव्यम्। ततो भावे अण्। दिव्यगुणेन (ईदृक्) त्यदादिषु दृशोऽनालोचने कञ् च। पा० ३।२।६०। इति दृशेः क्विन्। इंदकिमोरीश्की। पा० ६।३।९०। इति इदम ईशादेशः। एवंरूपं जगद् यथा दृश्यते (आर) ऋ गतौ लिट्। प्राप्तं बभूव (यूयम्) (ईशिध्वे) ईश्वराः समर्था भवथ (वसवः) हे वासयितारः। प्रशस्ताः (तस्य) दृश्यमानस्य जगतः (निष्कृतेः) निस्तारस्य उद्धारस्य। अन्यत् पूर्ववत् ॥