Go To Mantra
Viewed 125 times

उत्स॒मक्षि॑तं॒ व्यच॑न्ति॒ ये सदा॒ य आ॑सि॒ञ्चन्ति॒ रस॒मोष॑धीषु। पु॒रो द॑धे म॒रुतः॒ पृश्नि॑मातॄं॒स्ते नो॑ मुञ्च॒न्त्वंह॑सः ॥

Mantra Audio
Pad Path

उत्सम् । अक्षितम् । विऽअचन्ति । ये । सदा । ये । आऽसिञ्चन्ति । रसम् । ओषधीषु । पुर: । दधे । मरुत: । पृश्निऽमातृन् । ते । न: । मुञ्चन्तु । अंहस: ॥२७.२॥

Atharvaveda » Kand:4» Sukta:27» Paryayah:0» Mantra:2


PANDIT KSHEMKARANDAS TRIVEDI

पवन के गुणों का उपदेश।

Word-Meaning: - (ये) जो [मरुत् देवता] (सदा) सदा (अक्षितम्) अक्षय (उत्सम्) सींचनेवाले जल को (व्यचन्ति) विविध प्रकार से पहुँचाते हैं, और (ये) जो (रसम्) रस को (ओषधीषु) अन्न आदि ओषधियों में (आसिञ्चन्ति) सींच देते हैं। (पृश्निमातॄन्) छूने योग्य पदार्थों को वा आकाश के नापनेवाले (मरुतः) उन वायु, देवताओं को (पुरो दधे) मैं सन्मुख रखता हूँ। (ते) वे (नः) हमें (अंहसः) कष्ट से (मुञ्चन्तु) छुड़ावें ॥२॥
Connotation: - मनुष्य वायु के गुणों में विज्ञान प्राप्त करके सदा आनन्दित रहें ॥२॥
Footnote: २−(उत्सम्) अ० १।१५।३। सेचनसाधनं जलं वा (अक्षितम्) अक्षीणम् (व्यचन्ति) अञ्चु अचु गतौ याचने च, अन्तर्गतो ण्यर्थः। विविधं गमयन्ति (ये) मरुतः (सदा) पर्वदा (आसिञ्चन्ति) समन्तात् क्षारयन्ति वर्षयन्ति (रसम्) सारम् (ओषधीषु) व्रीहियवाद्यासु तरुगुल्मादिषु च (पुरोदधे) पुरस्ताद् धारयामि। भजामि। पूजयामि (मरुतः) दोषनाशकान् वायून् (पृश्निमातॄन्) घृणिपृश्निपार्ष्णि०। उ० ४।५२। इति स्पृश संस्पर्शे-नि। धातोः पृशू भावः। पृश्निः.... द्यौः संस्पृष्टा ज्योतिर्भिः पुण्यकृद्भिश्च-निरु० २।१४। ण्वुल्तृचौ। पा० ३।१।१३३। इति माङ् माने-तृच्। पृश्नीनां स्पर्शनीयानां पदार्थानाम्। अथवा। पृश्नेर्दिव आकाशस्य मातरो मानकर्तारः परिच्छेत्तारो ये तान्। अन्यत् पूर्ववत् ॥