Go To Mantra
Viewed 188 times

म॒रुतां॑ मन्वे॒ अधि॑ मे ब्रुवन्तु॒ प्रेमं वाजं॒ वाज॑साते अवन्तु। आ॒शूनि॑व सु॒यमा॑नह्व ऊ॒तये॒ ते नो॑ मुञ्च॒न्त्वंह॑सः ॥

Mantra Audio
Pad Path

मरुताम् । मन्वे । अधि । मे । ब्रुवन्तु । प्र । इमम् । वाजम् । वाजऽसाते । अवन्तु । आशूनऽइव । सुऽयमान् ।अह्वे । ऊतये । ते । न: । मुञ्चन्तु । अंहस: ॥२७.१॥

Atharvaveda » Kand:4» Sukta:27» Paryayah:0» Mantra:1


PANDIT KSHEMKARANDAS TRIVEDI

पवन के गुणों का उपदेश।

Word-Meaning: - (मरुताम्) दोषनाशक वायुओं का (अन्वे) मैं मनन करता हूँ। (मे) मेरे लिये (अधि) अनुग्रह से (ब्रुवन्तु) बोलें और (इमम्) इस (वाजम्) बलको (वाजसाते) अन्न के सुख वा दान के निमित्त (प्र) अच्छे प्रकार (अवन्तु) तृप्त करें। (आशून् इव) शीघ्रगामी घोड़ों के समान (सुयमान्) उन सुन्दर नियमवालों को (ऊतये) अपनी रक्षा के लिये (अह्वे) मैंने पुकारा है। (ते) वे (नः) हमें (अंहसः) कष्ट से (मुञ्चन्तु) छुड़ावें •॥१॥
Connotation: - मनुष्य प्राण अपान व्यानरूप वायुओं के शोधन, सेवन, और प्राणायाम से बल और अन्न प्राप्त करके अपनी रक्षा करें ॥१॥
Footnote: १−(मरुताम्) उ० १।२०।१। मारयन्ति दोषान् मरुतः। दोषनाशकानां प्राणापानव्यानरूपाणं वायूनाम् (मन्वे) मननं करोमि (मे) मह्यम् (अधि ब्रुवन्तु) अधिकमनुग्रहेण वदन्तु (इमम्) (वाजम्) बलम्-निघ० २।९। (वाजसाते) वाजः, अन्नम्-निघ० २।७। अनुपसर्गाल्लिम्पविन्द०। पा० ३।१।१३८। इति सूत्रे पठितः सातिः सौत्रो धातुः। सात सुखे-अच्। यद्वा षणु दाने-क्त। जनसनखनाम्। पा० ६।४।४२। इत्यात्वम्। वाजस्य अन्नस्य साते सुखे दाने वा निमित्तभूते सति (प्र अवन्तु) प्रकर्षेण तर्पयन्तु (आशून्) अ० २।१४।६। शीघ्रगामिनोऽश्वान् (इव) तथा (सुयमान्) शोभननियमयुक्तान् तान् मरुतः (अह्वे) ह्वेञ् आह्वाने-लुङ्। लिपिसिचिह्वश्च। पा० ३।१।५३। इति च्लेः अङ् आदेशः। आहूतवानस्मि (ऊतये) रक्षायै (ते) मरुतः (नः) अस्मान् (मुञ्चन्तु) मोचयन्तु (अंहसः) कष्टात् ॥