Viewed 201 times
उ॒प श्रेष्ठा॑ न आ॒शिषो॑ दे॒वयो॒र्धाम॑न्नस्थिरन्। स्तौमि॑ दे॒वं स॑वि॒तारं॑ च वा॒युं तौ नो॑ मुञ्चत॒मंह॑सः ॥
Pad Path
उप । श्रेष्ठा: । न: । आऽशिष: । देवयो: । धामन् । अस्थिरन् । स्तौमि । देवम् । सवितारम् । च । वायुम् । तौ । न: । मुञ्चतम् । अंहस: ॥२५.७॥
Atharvaveda » Kand:4» Sukta:25» Paryayah:0» Mantra:7
PANDIT KSHEMKARANDAS TRIVEDI
पवन और सूर्य के गुणों का उपदेश।
Word-Meaning: - (देवयोः) उन दोनों देवों की [=के लिये] (श्रेष्ठाः) श्रेष्ठ (आशिषः) कामनाएँ (नः) हमारे (धामन्) देह में (उप अस्थिरन्) उपस्थित हुई हैं। (देवम्) दिव्य (सवितारम्) सूर्य (च) और (वायुम्) वायु की (स्तौमि) मैं स्तुति करता हूँ। (तौ) सो तुम दोनों (नः) हमें (अंहसः) कष्ट से (मुञ्चतम्) छुड़ावो ॥७॥
Connotation: - मनुष्य सूर्य और वायु से गुण ग्रहण करने के लिये पूरी इच्छा अपने हृदय में स्थित करके प्रयत्नपूर्वक लाभ उठावें और सदा सुखी रहें ॥७॥ इति पञ्चमोऽनुवाकः ॥
Footnote: ७−(उप) उपसर्गः (श्रेष्ठाः) अतिशयेन प्रशस्ताः (नः) अस्माकम् (आशिषः) आङ्पूर्वः शासु इच्छायाम्-क्विप्। आशासः क्वावुपधाया इत्वम्। वा० पा० ६।४।३४। इत इत्वम्। कामनाः (देवयोः) दानादिगुणयुक्तयोः। वायुसवित्रोः (धामन्) धामनि। स्थाने। देहे (उप अस्थिरन्) तिष्ठतेर्लुङि। अकर्मकाच्च। पा० १।३।२६। इत्यात्मनेपदम्। उपस्थिता अभवन् (स्तौमि) प्रशंसामि (देवम्) दिव्यम् (सवितारम्) सूर्यम् (च) (वायुम्) पवनम्। अन्यत् पूर्ववत् ॥
