Go To Mantra
Viewed 136 times

र॒यिं मे॒ पोषं॑ सवि॒तोत वा॒युस्त॒नू दक्ष॒मा सु॑वतां सु॒शेव॑म्। अ॑य॒क्ष्मता॑तिं॒ मह॑ इ॒ह ध॑त्तं॒ तौ नो॑ मुञ्चत॒मंह॑सः ॥

Mantra Audio
Pad Path

रयिम् । मे । पोषम् । सविता । उत । वायु: । तनू इति । दक्षम् । आ । सुवताम् । सुऽशेवम् । अयक्ष्मऽतातिम् । मह: । इह । धत्तम् । तौ । न: । मुञ्चतम् । अंहस: ॥२५.५॥

Atharvaveda » Kand:4» Sukta:25» Paryayah:0» Mantra:5


PANDIT KSHEMKARANDAS TRIVEDI

पवन और सूर्य के गुणों का उपदेश।

Word-Meaning: - (सविता) सूर्य (उत) और (वायुः) पवन (मे) मेरे लिये (तनू=तन्वाम्) अपने शरीर में वर्त्तमान (सुशेवम्) अति सुखदायक (रयिम्) धन, (पोषम्) पुष्टि और (दक्षम्) बल को (आ सुवताम्) भेजें। (इह) यहाँ पर (अयक्ष्मतातिम्) नीरोगता और (महः) तेज (धत्तम्) तुम दोनों दान करो, (तौ) सो तुम दोनों (नः) हमें (अंहसः) कष्ट से (मुञ्चतम्) छुड़ावो ॥५॥
Connotation: - मनुष्य वायु और सूर्य के विज्ञान से ऋद्धि, सिद्धि, बल और स्वस्थता प्राप्त करके आनन्द भोगें ॥५॥
Footnote: ५−(रयिम्) धनम् (मे) मह्यम् (पोषम्) पुष्टिं समृद्धिम् (सविता) सूर्यः (उत) अपि च (वायुः) पवनः (तनू) सुपां सुलुक्०। पा० ७।१।३९। इति। सप्तम्या लुक्। ईदूतौ च सप्तम्यर्थे। पा० १।१।१९। इति प्रगृह्यम्। तन्वाम्। स्वशरीरे वर्तमानम् (दक्षम्) बलम्-निघ० २।९। (आसुवताम्) षू प्रेरणे। समन्तात् प्रेरयताम्। प्रयच्छताम् (सुशेवम्) इणशीभ्यां वन्। उ० १।१५२। इति शीङ् स्वप्ने-वन्। शेवं सुखम्-निघ० ३।६। अतिशयेन सुखकरम् (अयक्ष्मतातिम्) भावे च। पा० ४।४।१४४। इति बाहुलकात् भावे तातिल्। अयक्ष्मताम्। यक्ष्माद् राहित्यम्। आरोग्यम् (महः) तेजः (इह) अस्मिन् शरीरे (धत्तम्) दत्तम्। अन्यत् पूर्ववत् ॥