Go To Mantra
Viewed 160 times

वा॒योः स॑वि॒तुर्वि॒दथा॑नि मन्महे॒ यावा॑त्म॒न्वद्वि॒शथो॒ यौ च॒ रक्ष॑थः। यौ विश्व॑स्य परि॒भू ब॑भू॒वथु॒स्तौ नो॑ मुञ्चत॒मंह॑सः ॥

Mantra Audio
Pad Path

वायो: । सवितु: । विदथानि । मन्महे । यौ । आत्मन्ऽवत् । विशथ: । यौ । च । रक्षथ: । यौ । विश्वस्य । परिभू इति परिऽभू । बभूवथु: । तौ । न: । मुञ्चतम् । अंहस: ॥२५.१॥

Atharvaveda » Kand:4» Sukta:25» Paryayah:0» Mantra:1


PANDIT KSHEMKARANDAS TRIVEDI

पवन और सूर्य के गुणों का उपदेश।

Word-Meaning: - (वायोः) गतिशील वा दोषनाशक पवन के और (सवितुः) सर्वप्रेरक सूर्य के (विदथानि कर्मों को (मन्महे) हम विचारते हैं। (यौ) जो तुम (यौ) गमनशील होकर (आत्मन्वत्) आत्मावाले जगत् में (विशयः) प्रवेश करते हो (च) और (रक्षथः) रक्षा करते हो, (यौ) जो तुम दोनों (विश्वस्य) सब जग के (परिभू) सहारा देनेवाले (बभूवथुः) हुए हो, (तौ) वह तुम दोनों (नः) हमें (अंहसः) कष्ट से (मुञ्चतम्) छुड़ावो ॥१॥
Connotation: - वायु और सूर्य के यथावत् गुण जानकर मनुष्य आत्मिक शारीरिक और सामाजिक उन्नति करें ॥१॥
Footnote: १−(वायोः) कृवापा०। उ० १।१। इति वा गतिगन्धनयोः-उण्, युगागमः। गमनशीलस्य दोषनाशकस्य वा जगदाधारभूतस्य वातस्य (सवितुः) सर्वप्रेरकस्य सूर्यस्य (विदथानि) विद ज्ञाने-अथ। वेदितव्यानि कर्माणि (मन्महे) जानीमः। विचारयामः (यौ) वायुसवितारौ युवाम् (आत्मन्वत्) अ० ४।१०।७। सात्मकं स्थावरजङ्गमात्मकं जगत्। जीवनशक्तियुक्तम् (विशथः) प्रविशथः (यौ) या प्रापणे-ड। यातारौ। गन्तारौ सन्तौ (रक्षथः) पालयथः (विश्वस्य) सर्वस्य जगतः (परिभू) अ० ३।२१।४। सुपां सुलुक्०। पा० ७।१।३९। इति पूर्वसवर्णदीर्घः। परिग्रहीतारौ। सर्वतो व्यापकौ (बभूवथुः) (तौ) तथाभूतौ युवाम् (नः) अस्मान् (मुञ्चतम्) मोचयतम् (अंहसः) कष्टात् ॥