Go To Mantra

यः प्र॑थ॒मः क॑र्म॒कृत्या॑य ज॒ज्ञे यस्य॑ वी॒र्यं प्रथ॒मस्यानु॑बुद्धम्। येनोद्य॑तो॒ वज्रो॒ऽभ्याय॒ताहिं॒ स नो॑ मुञ्च॒त्वंह॑सः ॥

Mantra Audio
Pad Path

य: । प्रथम: । कर्मऽकृत्याय । जज्ञे । यस्य । वीर्यम् । प्रथमस्य । अनुऽबुध्दम् । येन । उत्ऽयत: । वज्र: । अभिऽआयत । अहिम् । स: । न: । मुञ्चतु । अंहस: ॥२४.६॥

Atharvaveda » Kand:4» Sukta:24» Paryayah:0» Mantra:6


Reads 87 times

PANDIT KSHEMKARANDAS TRIVEDI

पूर्ण सुख पाने का उपदेश।

Word-Meaning: - (यः) जो (प्रथमः) मुख्य परमात्मा (कर्मकृत्याय) कर्म करनेवाले के हित के लिये (जज्ञे) प्रगट हुआ है (यस्य) जिस (प्रथमस्य) श्रेष्ठ परमात्मा का (वीर्यम्) सामर्थ्य (अनुबुद्धम्) सर्वत्र जाना गया है। (येन) जिस परमात्मा करके (उद्यतः) उठाये गये (वज्रः) वज्र ने (अहिम्) हनन करनेवाले शत्रु को (अभ्यायत) हनन कर दिया है, (सः) वह (नः) हमें (अंहसः) कष्ट से (मुञ्चतु) छुड़ावे ॥६॥
Connotation: - सर्वशक्तिमान् परमेश्वर वैदिक कर्म करनेवालों का सदा आनन्ददायक है, उसी शत्रुनाशक जगदीश्वर की कृपा से हम अपने दोषों को त्याग कर सदा प्रसन्न रहें ॥६॥
Footnote: ६−(यः) इन्द्रः परमेश्वरः (प्रथमः) मुख्यः। श्रेष्ठः। (कर्मकृत्याय) विभाषा कृवृषोः। पा० ३।१।१२०। इति डुकृञ् करणे-कर्तरि क्यप् तुक् च। कर्मणां कर्तुर्हिताय (जज्ञै) जातवान्। प्रादुर्बभूव (यस्य) (वीर्यम्) सामर्थ्यम् (प्रथमस्य) श्रेष्ठस्य (अनुबुद्धम्) अनुज्ञातम् (येन) इन्द्रेण (उद्यतः) उद्धृतः (वज्रः) दण्डः (अभ्यायत) आङ् पूर्वाद् यमेर्लङि च्लेः सिच्। यमो गन्धने। पा० १।२।१५। इति सिचेः कित्वात्। अनुदात्तोपदेश०। पा० ६।४।३७। इति अनुनासिकलोपः। ह्रस्वादङ्गात्। पा० ८।२।२७। इति सिज्लोपः। अभितः सर्वतोऽहिंसीत् (अहिम्) अ० २।५।५। आहन्तारम्। क्लेशप्रदम्। अन्यत् पूर्ववत् ॥