Go To Mantra
Viewed 114 times

इन्द्र॑स्य मन्महे॒ शश्व॒दिद॑स्य मन्महे वृत्र॒घ्न स्तोमा॒ उप॑ मे॒म आगुः॑। यो दा॒शुषः॑ सु॒कृतो॒ हव॒मेति॒ स नो॑ मुञ्च॒त्वंह॑सः ॥

Mantra Audio
Pad Path

इन्द्रस्य । मन्महे । शश्वत् । इत् । अस्य । मन्महे । वृत्रऽघ्न: । स्तोमा: । उप । मा । इमे । आ । अगु: । य: । दाशुष: । सुऽकृत: । हवम् । एति । स: । न: । मुञ्चतु । अंहस: ॥२४.१॥

Atharvaveda » Kand:4» Sukta:24» Paryayah:0» Mantra:1


PANDIT KSHEMKARANDAS TRIVEDI

पूर्ण सुख पाने का उपदेश।

Word-Meaning: - (इन्द्रस्य) परम ऐश्वर्यवाले परमात्मा का (मन्महे) हम मनन करते हैं, (शश्वत् इत्) सदा ही (अस्य) इस (वृत्रघ्नः) शत्रुनाशक वा अन्धकारनिवारक का (मन्महे) हम मनन करते हैं। (इमे) ये (स्तोमाः) स्तुति के ज्ञान (मा) मुझको (उप आ अगुः) प्राप्त हुए हैं। (यः) जो परमेश्वर (दाशुषः) दानशील और (सुकृतः) सुकर्मी पुरुष के (हवम्) आवाहन को (एति) प्राप्त होता है (सः) वह (नः) हमें (अंहसः) कष्ट से (मुञ्चतु) छुड़ावे ॥१॥
Connotation: - परमेश्वर के गुणों को नित्य गाते हुए हम लोग पाप से बचकर धर्मप्रचार करें ॥१॥
Footnote: १−(इन्द्रस्य) परमैश्वर्ययुक्तस्य परमात्मनः (मन्महे) मनुमहे। मननं कुर्मः (शश्वत्) सर्वदा (इत्) निश्चयेन (अस्य) इन्द्रस्य (वृत्रघ्नः) अ० १।२१।१। शत्रुनाशकस्य। अन्धकारनिवारकस्य (स्तोमाः) अर्तिस्तुसुहु०। उ० १।१४०। ष्टुञ् स्तुतौ-मन्। स्तोत्राणि (उप) समीपे (मा) मां सेवकम् (इमे) वक्ष्यमाणाः (आ अगुः) इण् गतौ-लुङ्। आगमन् (यः) इन्द्रः (दाशुषः) दाश्वान् साह्वान् मीढ्वांश्च। पा० ६।१।१२। इति दाशृ दाने-क्वसौ निपात्यते। दानशीलस्य (सुकृतः) शोभनकर्मणः। धार्मिकस्य पुरुषस्य (हवम्) अ० १।१५।२। आह्वानम् (एति) गच्छति प्राप्नोति। अन्यद् व्याख्यातम् ॥