Go To Mantra
Viewed 124 times

याम॑न्याम॒न्नुप॑युक्तं॒ वहि॑ष्ठं॒ कर्म॑ङ्कर्म॒न्नाभ॑गम॒ग्निमी॑डे। र॑क्षो॒हणं॑ यज्ञ॒वृधं॑ घृ॒ताहु॑तं॒ स नो॑ मुञ्च॒त्वंह॑सः ॥

Mantra Audio
Pad Path

यामन्ऽयामन् । उपऽयुक्तम् । वहिष्ठम् । कर्मन्ऽकर्मन् । आऽभगम् । अग्निम् । ईडे । रक्ष:ऽहनम् । यज्ञऽवृधम् । घृतऽआहुतम् । स: । न: । मुञ्चतु । अंहस: ॥२३.३॥

Atharvaveda » Kand:4» Sukta:23» Paryayah:0» Mantra:3


PANDIT KSHEMKARANDAS TRIVEDI

कष्ट हटाने के लिये उपदेश।

Word-Meaning: - (यामन् यामन्) प्रत्येक गति वा उद्योग में (उपयुक्तम्) उपयोग किये, (कर्मन्कर्मन्) प्रत्येक कर्म में (आभगम्) अच्छे प्रकार से भक्ति योग्य, (वहिष्ठम्) अतिबली, (रक्षोहणम्) राक्षसों के हनन करनेहारे, (यज्ञवृधम्) पूजनीय कर्म के बढ़ानेवाले, (घृताहुतम्) प्रकाश के भलीभाँति देनेवाले, (अग्निम्) सर्वज्ञ अग्नि, परमात्मा की (ईडे) मैं स्तुति करता हूँ। (सः) वह (नः) हमें (अंहसः) कष्ट से (मुञ्चतु) छुड़ावे ॥३॥
Connotation: - जो मनुष्य प्रत्येक कर्म में परमात्मा का ध्यान करके उद्योग करते हैं, वही बाहिरी और भीतरी शत्रुओं को हटाकर संसार में सुख भोगते हैं ॥३॥
Footnote: ३−(यामन् यामन्) सर्वधातुभ्यो मनिन्। उ० ४।१४५। इति या प्रापणे-मनिन्। सप्तम्या लुक्। यामनि यामनि। सर्वस्यां गतौ (उपयुक्तम्) उपयोगीभूतम् (वहिष्ठम्) तुश्छन्दसि। पा० ५।३।५९। इति वोढृ-इष्ठन्। तुरिष्ठेमेयस्सु। पा० ६।४।१५४। इति तृलोपः। वोढृतमम्। अतिशयेन प्रापकम्। बलिष्ठम् (कर्मन् कर्मन्) डुकृञ् करणे-मनिन्। सप्तम्या लुक्। सर्वस्मिन् कर्मणि (आभगम्) आभक्तव्यम्। आसेव्यम् (अग्निम्) सर्वज्ञं परमात्मानम् (ईडे) ईड स्तुतौ। अग्निमीडेऽग्निं याचामीडिरध्येषणाकर्मा पूजाकर्मा वा-निरु० ७।१५। स्तौमि (रक्षोहणम्) रक्षस्+हन् हिंसागत्योः-क्विप्। रक्षसां हन्तारम् (यज्ञवृधम्) यज्ञस्य पूजनीयकर्मणो वर्धयितारम् (घृताहुतम्) घृत+आङ्−हु दाने-क्विप्, तुक् च। घृतस्य प्रकाशस्य सम्यग् दातारम्। अन्यत् पूर्ववत् अ० १ ॥