यु॒नज्मि॑ त उत्त॒राव॑न्त॒मिन्द्रं॒ येन॒ जय॑न्ति॒ न प॑रा॒जय॑न्ते। यस्त्वा॒ कर॑देकवृ॒षं जना॑नामु॒त राज्ञा॑मुत्त॒मं मा॑न॒वाना॑म् ॥
युनज्मि । ते । उत्तरऽवन्तम् । इन्द्रम् । येन । जयन्ति । न । पराऽजयन्ते । य: । त्वा । करत् । एकऽवृषम् । जनानाम् । उत । राज्ञाम् । उत्ऽतमम् । मानवानाम्॥२२.५॥
PANDIT KSHEMKARANDAS TRIVEDI
संग्राम में जय के लिये उपदेश।
