Go To Mantra
Viewed 121 times

एमं भ॑ज॒ ग्रामे॒ अश्वे॑षु॒ गोषु॒ निष्टं भ॑ज॒ यो अ॒मित्रो॑ अ॒स्य। वर्ष्म॑ क्ष॒त्राणा॑म॒यम॑स्तु॒ राजेन्द्र॒ शत्रुं॑ रन्धय॒ सर्व॑म॒स्मै ॥

Mantra Audio
Pad Path

आ । इमम् । भज । ग्रामे । अश्वेषु । गोषु । नि: । तम् । भज । य: । अमित्र: । अस्य । वर्ष्म । क्षत्राणाम् । अयम् । अस्तु । राजा । इन्द्र । शत्रुम् । रन्धय । सर्वम् । अस्मै ॥२२.२॥

Atharvaveda » Kand:4» Sukta:22» Paryayah:0» Mantra:2


PANDIT KSHEMKARANDAS TRIVEDI

संग्राम में जय के लिये उपदेश।

Word-Meaning: - (इमम्) इसको (ग्रामे) ग्राम में, (अश्वेषु) घोड़ों में, और (गोषु) गौ आदिकों में (आभज) भाग्यवान् कर, और (यः) जो (अस्य) इसका (अमित्रः) वैरी है, (तम्) उस को (निर्भज) अलग कर दे। (अयम्) यह (राजा) राजा (क्षत्राणाम्) क्षत्रियों का (वर्ष्म) मस्तक [समान ऊँचा] (अस्तु) होवे। (इन्द्र) हे परम ऐश्वर्यवाले इन्द्र भगवान् ! (अस्मै) इसके लिये (सर्वम्) सब (शत्रुम्) शत्रु को (रन्धय) वश में कर ॥२॥
Connotation: - राजा परमेश्वर में श्रद्धा रखता हुआ अपनी प्रजा, सेना, और गौ आदि पशुओं की रक्षा करता हुआ अपने सब शत्रुओं का नाश करके क्षत्रियों का शिरोमणि बने ॥२॥
Footnote: २−(इमम्) राजानम् (आ भज) भज सेवाविश्राणनयोः। समन्तात् सेवस्व। भागं देहि (ग्रामे) अ० ४।७।५। वसतौ। (अश्वेषु) तुरङ्गेषु (गोषु) धेन्वादिपशुषु (तम्) शत्रुम् (निर्भज) निर्भक्तं वियुक्तं कुरु (यः) (अमित्रः) पीडकः शत्रुः (अस्य) राज्ञः (वर्ष्म) अ० ३।४।२। उन्नतस्थानम्। शिरोवदुन्नतः (क्षणात्राम्) अ० २।१५।४। क्षतस्त्रायकाणां क्षत्रियाणां मध्ये (अस्तु) (राजा) (इन्द्र) हे परमैश्वर्यवन् परमात्मन् (शत्रुम्) रिपुम् (रन्धय) म० १। वशीकुरु (सर्वम्) (अस्मै) राजहिताय ॥