Go To Mantra
Viewed 116 times

प्र॒जाव॑तीः सू॒यव॑से रु॒शन्तीः॑ शु॒द्धा अ॒पः सु॑प्रपा॒णे पिब॑न्तीः। मा व॑ स्ते॒न ई॑शत॒ माघशं॑सः॒ परि॑ वो रु॒द्रस्य॑ हे॒तिर्वृ॑णक्तु ॥

Mantra Audio
Pad Path

प्रजाऽवती: । सुऽयवसे । रुशन्ती: । शुध्दा: । अप: । सुऽप्रपाने । पिबन्ती: । मा । व: । स्तेन: । ईशत । मा । अघऽशंस: । परि । व: । रुद्रस्य । हेति: । वृणक्तु ॥२१.७॥

Atharvaveda » Kand:4» Sukta:21» Paryayah:0» Mantra:7


PANDIT KSHEMKARANDAS TRIVEDI

विद्या के गुणों का उपदेश।

Word-Meaning: - [हे मनुष्यप्रजाओ !] (प्रजावतीः) उत्तम सन्तानवाली, (सुयवसे) सुन्दर यव आदि अन्नवाले [घर] में [अन्न] (रुशन्तीः) खाती हुईं, और (सुप्रपाणे) सुन्दर जलस्थान में (शुद्धाः) शुद्ध (अपः) जलोंको (पिबन्तीः) पीती हुईं (वः) तुमको (स्तेनः) चोर (मा ईशत) वश में न करे, और (मा) न (अघशंसः) बुरा चीतनेवाला, डाकू उचक्का आदि [वश में करे]। (रुद्रस्य) पीड़ानाशक परमेश्वर की (हेतिः) हननशक्ति (वः) तुमको (परि) सब ओर से (वृणक्तु) त्यागे रहे ॥७॥
Connotation: - मनुष्य विद्याएँ उपार्जन करके अपनी सन्तानों को उत्तम शिक्षा देते हुए और अन्न जल आदि का सुप्रबन्ध करते हुए सदा हृष्ट पुष्ट बुद्धिमान् और धर्मिष्ठ रहें, जिससे उन्हें न चोर आदि सता सके और न परमेश्वर दण्ड देवे ॥७॥ (मा व स्तेन इति) यह पाद य० १।१ और (परि वो रुद्रस्येति) यह पाद य० १६।५०। में है ॥
Footnote: ७−(प्रजावतीः) उत्तमसन्तानयुक्ताः [हे प्रजाः-इति शेषः] (सुयवसे) अत्यविचमि०। उ० ३।११७। इति सु+यु मिश्रणामिश्रणयोः-असच्। शोभनानि यवाद्यन्नानि यस्मिन् तस्मिन् गृहे (रुशन्तीः) रुश हिंसायाम्-शतृ। अन्नं भक्षयन्तीः (शुद्धाः) निर्मलाः (अपः) जलानि (सुप्रपाणे) सुन्दरे जलपानस्थाने (पिबन्तीः) पानं कुर्वतीः (वः) युष्मान् (स्तेनः) चोरः (व स्तेन) खर्परे शरि वा लोपो वक्तव्यः। वा० पा० ८।३।३६। इति विसर्गलोपः। (मा ईशत) मा ईशिष्ट। अधिकारे वशे न करोतु (मा) मा ईशत (अघशंसः) अघ पापकरणे-पचाद्यच्, शसि इच्छायाम्-अच्। अघं पापं शंसति इच्छतीति यः। अनिष्टचिन्तकः (परि) सर्वतः (वः) युष्मान् (रुद्रस्य) रुद्+रस्य। रुदिर् अश्रुविमोचने-क्विप, इति रुत् पीडा। रुङ् गतिहिंसनयोः-ड। रुदं पीडां रवते नाशयतीति रुद्रः, तस्य दुःखनाशकस्य परमेश्वरस्य (हेतिः) ऊतियूतिजूति०। पा० ३।३।९७। इति हन वधे क्तिन्। हन्यते ताड्यते अनया। हननशक्तिः (वृणक्तु) वृजी वर्जने। वर्जयतु। त्यजतु ॥