Go To Mantra
Viewed 119 times

गावो॒ भगो॒ गाव॒ इन्द्रो॑ म इछा॒द्गावः॒ सोम॑स्य प्रथ॒मस्य॑ भ॒क्षः। इ॒मा या गावः॒ स ज॑नास॒ इन्द्र॑ इ॒च्छामि॑ हृ॒दा मन॑सा चि॒दिन्द्र॑म् ॥

Mantra Audio
Pad Path

गाव: । भग: । गाव: ।‍ इन्द्र: । मे । इच्छात् । गाव: । सोमस्य । प्रथमस्य । भक्ष: । इमा: । या: । गाव: । स: । जनास: । इन्द्र: । इच्छामि । हृदा । मनसा । चित् । इन्द्रम् ॥२१.५॥

Atharvaveda » Kand:4» Sukta:21» Paryayah:0» Mantra:5


PANDIT KSHEMKARANDAS TRIVEDI

विद्या के गुणों का उपदेश।

Word-Meaning: - (गावः) विद्याएँ ही (भगः) धन हैं, (गावः) विद्याएँ (इन्द्रः) परम ऐश्वर्य हैं, (गावः) विद्याएँ (प्रथमस्य) अति श्रेष्ठ (सोमस्य) सोमरस अर्थात् अमृत वा मोक्ष का (भक्षः) सेवन हैं, [इति] (मे इच्छात्) [यह] मेरी इच्छा हो। (जनासः) हे मनुष्यो ! (इमाः) ये (याः) जो (गावः) विद्याएँ हैं, (सः) सो ही (इन्द्रः) परम ऐश्वर्य हैं। (इन्द्रम्) परम ऐश्वर्य की (चित्) ही (हृदा) हृदय अर्थात् आत्मा और (मनसा) विज्ञान के साथ (इच्छामि) मैं चाह करता हूँ ॥५॥
Connotation: - मनुष्य विद्याओं को धन, ऐश्वर्य और मोक्ष का मुख्य साधन जानकर पूर्ण श्रद्धा से प्राप्त करें ॥५॥
Footnote: ५−(गावः) वाचः। विद्याः (भगः) भजनीयं धनम्-निघ० २।१०। (इन्द्रः) परमैश्वर्यं सन्ति (मे) मम (इच्छात्) इषु इच्छायां लेटि आडागमः। इच्छा भवेत्-इति (सोमस्य) ऐश्वर्यवतो अमृतस्य मोक्षस्य (प्रथमस्य) अतिश्रेष्ठस्य (भक्षः) वृतॄवदिवचि०। उ० ३।६२। इति भज सेवने-स। सेवनम्। भोगः (इमाः) (याः) (वाचः) (सः) स एव (इन्द्रः) ऐश्वर्यम् (जनासः) हे जनाः। विद्वांसः (इच्छामि) अहं कामये (हृदा) हृदयेन। आत्मना (मनसा) विज्ञानेन (चित्) अपि। एव (इन्द्रम्) विद्यारूपम् ऐश्वर्यम् ॥