Go To Mantra

न ता न॑शन्ति॒ न द॑भाति॒ तस्क॑रो॒ नासा॑मामि॒त्रो व्य॒थिरा द॑धर्षति। दे॒वांश्च॒ याभि॒र्यज॑ते॒ ददा॑ति च॒ ज्योगित्ताभिः॑ सचते॒ गोप॑तिः स॒ह ॥

Mantra Audio
Pad Path

न । ता: । नशन्ति । न । दभाति । तस्कर: । न । आसाम् । आमित्र: । व्यथि: । आ । दधर्षति । देवान् । च । याभि: । यजते । ददाति । च । ज्योक् । इत् । ताभि: । सचते । गोऽपति: । सह ॥२१.३॥

Atharvaveda » Kand:4» Sukta:21» Paryayah:0» Mantra:3


Reads 94 times

PANDIT KSHEMKARANDAS TRIVEDI

विद्या के गुणों का उपदेश।

Word-Meaning: - (ताः) वे [विद्यायें] (न) नहीं (नशन्ति) नष्ट होती हैं, (न) न [उन्हें] (तस्करः) चोर (दभाति) ठगता है, (न) न (आमित्रः) पीड़ा देनेवाला (व्यथिः) व्यथाकारी शत्रु (आसाम्) इनकी (आ दधर्षति) हंसी उड़ाता है। (च) और (गोपतिः) विद्याओं का स्वामी, वाचस्पति (याभिः) जिन [विद्याओं] से (देवान्) दिव्य गुणों को (यजते) पूजता (च) और (ददाति) देता है, (ताभिः सह) उन [विद्याओं] के साथ (ज्योक् इत्) बहुत ही काल तक वह (सचते) मिला रहता है ॥३॥
Connotation: - विद्या अक्षय कोश है। जो मनुष्य विद्याओं को सत्कारपूर्वक ग्रहण करके संसार में फैलाता है। वह यशस्वी होकर सदा आनन्द भोगता है ॥३॥
Footnote: ३−(न) नहि (ताः) गावः। विद्याः (नशन्ति) णश अदर्शने, श्यनः शप्। नश्यन्ति (दभाति) दम्भु दम्भे=वञ्चने, छान्दसं रूपम्। दम्भयति दभ्नोति वञ्चति ताः तस्करः अ० ४।३।२। उपतापकरः। चोरः (आसाम्) गवाम्। विद्यानाम् (आमित्रः) अमेर्द्विषति चित्। उ० ४।१७४। इति आङ्+अम पीडने-इत्रच्। आ समन्ताद् आमयति पीडयतीति सः। शत्रुः (व्यथिः) सर्वधातुभ्य इन्। उ० ४।११८। इति व्यथ भयसंचलनयोः-इन्। व्यथाजनको दुष्टः (आ दधर्षति) धृष प्रहसने। आधर्षति आधर्षणं प्रहसनं तिरस्कारं करोति (देवान्) दिव्यगुणान् (च) (याभिः) गोभिः। विद्याभिः (यजते) पूजयति (ददाति) प्रयच्छति (च) (ज्योक्) निरन्तरम् (इत्) (ताभिः) गोभिः। विद्याभिः (सचते) समवैति (गोपतिः) गवां विद्यानां स्वामी। वाचस्पतिः (सह) सहितः ॥