Viewed 103 times
उ॒तो अ॒स्यब॑न्धुकृदु॒तो अ॑सि॒ नु जा॑मि॒कृत्। उ॒तो कृ॑त्या॒कृतः॑ प्र॒जां न॒डमि॒वा च्छि॑न्धि॒ वार्षि॑कम् ॥
Pad Path
उतो इति । असि । अबन्धुऽकृत् । उतो इति । असि । नु । जामिऽकृत् । उतो इति । कृत्याऽकृत: । प्रऽजाम् । नडम्ऽइव । आ । छिन्धि । वार्षिकम् ॥१९.१॥
Atharvaveda » Kand:4» Sukta:19» Paryayah:0» Mantra:1
PANDIT KSHEMKARANDAS TRIVEDI
राजा के धर्म का उपदेश।
Word-Meaning: - [हे राजन्] तू (अबन्धुकृत्) अबन्धुओंका काटनेवाला (उतो) भी (असि) है, (नु) और (जामिकृत्) बन्धुओं का बनानेवाला (उतो) भी (असि) है। (उतो) इससे (कृत्याकृतः) हिंसा करनेवालों और (प्रजाम्) उनके सेवकों को (आ छिन्धि) काट डाल, (इव) जैसे (वार्षिकम्) वर्षा में उत्पन्न (नडम्) नरकट घास को ॥१॥
Connotation: - राजा अपने उत्तम शासन से हिंसक दुष्टों का नाश करके इष्ट मित्रों में मेल बढ़ावे ॥१॥
Footnote: १−(उतो) अपि च (असि) (अबन्धुकृत्) कृती छेदने-क्विप्। अबन्धूनां शत्रूणां कर्तकश्छेदकः (नु) अनुनये (जामिकृत्) जामि इति व्याख्यातम्-अ० २।७।२। जामिः, बन्धुः-यथा सायणः-ऋ० १।७५।३। करोतेः क्विप्। बन्धूनां कर्ता सम्पादकः (कृत्याकृतः) हिंसाकर्तॄन् (प्रजाम्) तेषां जनान् भृत्यादीन् च (नडम्) नल बन्धे=पचाद्यच्। लस्य डत्वम्। सुच्छेद्यं तृणविशेषम् (इव) यथा (आ समन्तात् (छिन्धि) भिन्धि। विदारय (वार्षिकम्) छन्दसि ठञ्। पा० ४।३।१९। इति वर्षा-ठञ्। वर्षाकालोद्भवम् ॥
