Go To Mantra
Viewed 98 times

अ॒नया॒हमोष॑ध्या॒ सर्वाः॑ कृ॒त्या अ॑दूदुषम्। यां क्षेत्रे॑ च॒क्रुर्यां गोषु॒ यां वा॑ ते॒ पुरु॑षेषु ॥

Mantra Audio
Pad Path

अनया । अहम् । ओषध्या । सर्वा: । कृत्या: । अदूदुषम् । याम् । क्षेत्रे । चक्रु: । याम् । गोषु । याम् । वा । ते । पुरुषेषु ॥१८.५॥

Atharvaveda » Kand:4» Sukta:18» Paryayah:0» Mantra:5


PANDIT KSHEMKARANDAS TRIVEDI

राजा के धर्म का उपदेश।

Word-Meaning: - (अहम्) मैंने (अनया ओषध्या) इस ओषधिरूप [तापनाशक तुझ राजा] के साथ (सर्वाः कृत्याः) सब हिंसाओं को (अदूदुषम्) खण्डित कर दिया है, (याम्) जिस [हिंसा] को (क्षेत्रे) खेत में, अथवा (याम्) जिसको (गोषु) गौओं में (वा) अथवा (याम्) जिसको (ते) तेरे (पुरुषेषु) पुरुषों में (चक्रुः) उन लोगों ने किया था ॥५॥
Connotation: - जो दुष्ट लोग प्रजा को किसी प्रकार से सतायें, प्रजा गण और राजपुरुष मिलकर दुष्टों का नाश करें ॥५॥
Footnote: ५−(अनया ओषध्या) अनेन ओषधिरूपेण तापनाशकेन राज्ञा सह (अहम्) प्रजागणः (सर्वाः) (कृत्याः) हिंसाः (अदूदुषम्) दुषेर्ण्यन्तात् लुङि चङि रूपम्। दूषितवान् खण्डितवानस्मि (याम्) कृत्याम् (क्षेत्रे) शस्यवपनयोग्ये प्रदेशे (चक्रुः) कृतवन्तः शत्रवः (गोषु) गोषु मध्ये (वा) अथवा (ते) तव (पुरुषेषु) मनुष्येषु ॥