Go To Mantra

सं वो॑ऽवन्तु सु॒दान॑व॒ उत्सा॑ अजग॒रा उ॒त। म॒रुद्भिः॒ प्रच्यु॑ता मे॒घा वर्ष॑न्तु पृथि॒वीमनु॑ ॥

Mantra Audio
Pad Path

सम् । व: । अवन्तु । सुऽदानव: । उत्सा: । अजगरा: । उत । मरुत्ऽभि: । प्रऽच्युता: । मेघा: । वर्षन्तु । पृथिवीम् । अनु ॥१५.७॥

Atharvaveda » Kand:4» Sukta:15» Paryayah:0» Mantra:7


Reads 81 times

PANDIT KSHEMKARANDAS TRIVEDI

वृष्टि की प्रार्थना और गुणों का उपदेश।

Word-Meaning: - [हे मनुष्यों !] (सुदानवः) महा दानी, (अजगराः) अजगर [समान स्थूल आकारवाले] (उत्साः) स्रोते (वः) तुम्हें (उत) अत्यन्त करके (सम्) यथावत् (अवन्तु) तृप्त करें। (मरुद्भिः) पवन से (प्रच्युताः) चलाये गये (मेघाः) मेघ (पृथिवीम्) पृथिवी पर (अनु) अनुकूल (वर्षन्तु) बरसें ॥७॥
Connotation: - मनुष्य मेह के समान परस्पर उपकार करें ॥७॥
Footnote: ७−(सम्) सम्यक्। एकीभूय (वः) युष्मान् हे जनाः (अवन्तु) तर्पयन्तु (सुदानवः) म–० २। महादातारः (उत्साः) अ० १।१५।३। स्रोतांसि। कूपाः-निघ० ३।२३। (अजगराः) अज+गॄ निगरणे-अच्। अजान् गतिशीलान् जन्तून् गिरन्ति भक्षयन्ति ये। बृहत्सर्पाः। तद्वत् स्थूलाकाराः (उत) अत्यर्थम्। एव। (मरुद्भिः) वायुभिः (प्रच्युताः) प्रेरिताः (मेघाः) मिह सेचने-अच्, कुत्वम्। वारिवाहाः (वर्षन्तु) सिञ्चन्तु (पृथिवीम्) (अनु) अनुकूलम् ॥