Go To Mantra

अ॒भि क्र॑न्द स्त॒नया॒र्दयो॑द॒धिं भूमिं॑ पर्जन्य॒ पय॑सा॒ सम॑ङ्धि। त्वया॑ सृ॒ष्टं ब॑हु॒लमैतु॑ व॒र्षमा॑शारै॒षी कृ॒शगु॑रे॒त्वस्त॑म् ॥

Mantra Audio
Pad Path

अभि । क्रन्द । स्तनय । अर्दय । उदऽधिम् । भूमिम् । पर्जन्य । पयसा । सम् । अङ्धि । त्वया । सृष्टम् । बहुलम् । आ । एतु । वर्षम् । आशारऽएषी । कृशऽगु: । एतु । अस्तम् ॥१५.६॥

Atharvaveda » Kand:4» Sukta:15» Paryayah:0» Mantra:6


Reads 85 times

PANDIT KSHEMKARANDAS TRIVEDI

वृष्टि की प्रार्थना और गुणों का उपदेश।

Word-Meaning: - (पर्जन्य) हे मेघ ! तू (अभि) सब ओर (क्रन्द) गड़गड़ कर, (स्तनय) गरज, (उदधिम्) समुद्र को (अर्दय) हिलादे, (भूमिम्) भूमि (पयसा) जलसे (सम्अङ्धि) भरदे। (त्वया) तुझ करके (सृष्टम्) भेजा हुआ (बहुलम्) बहुत पदार्थ लानेवाला (वर्षम्) वृष्टि जल (ऐतु) आवे, (आशारैषी) शरण चाहनेवाला, (कृशगुः) दुबली गौ बैलवाला किसान (अस्तम्) अपने घर (एतु) जावे ॥६॥
Connotation: - पृथिवी पर वृष्टि होने से अनेक पदार्थ उपजते हैं, तब किसान आनन्दपूर्वक थके दुर्बल पशुओं को चराकर घर ले जाते हैं ॥६॥
Footnote: ६−(अभि) अभितः (क्रन्द) शब्दं कुरु (स्तनय) घोषय। गर्ज (अर्दय) पीडय (उदधिम्) जलधिम् (भूमिम्) (पर्जन्य) हे मेघ (पयसा) वृष्टिजलेन (सम् अङ्धि) अञ्जू व्यक्तिम्रक्षणकान्तिगतिषु। समक्तो संसिक्तां कुरु (त्वया) (सृष्टम्) प्रेरितम् (बहुलम्) अ० ३।१४।६। बहूनर्थान् लातीति, बहु+ला दानादानयोः-क। बहुपदार्थप्रापकम् (आ एतु) आगच्छतु (वर्षम्) वृष्टिजलम् (आशारैषी) शॄ वायुवर्णनिवृत्तेषु। वा० पा० ३।३।२१। इति आङ्+शॄ हिंसायाम्-घञ्। आशृणाति दुःखम् आशारः शरणम्। आशारमिच्छतीति, इष-णिनि। शरणेच्छुः (कृशगुः) गोस्त्रियोरुपसर्जनस्य। पा० १।२।४८। इति ह्रस्वः। कृशा दुर्बला गावः पशवो यस्य तथाविधिः कर्षकः (एतु) गच्छतु (अस्तम्) हसिमृग्रिण्०। उ० ३।८६। अस गतिदीप्त्यादानेषु-तन्। गृहम्-निघ० ३।४ ॥