Go To Mantra
Viewed 111 times

समी॑क्षयस्व॒ गाय॑तो॒ नभां॑स्य॒पां वेगा॑सः॒ पृथ॒गुद्वि॑जन्ताम्। व॒र्षस्य॒ सर्गा॑ महयन्तु॒ भूमिं॒ पृथ॑ग्जायन्तां वी॒रुधो॑ वि॒श्वरू॑पाः ॥

Mantra Audio
Pad Path

सम् । ईक्षयस्व । गायत: । नभांसि । अपाम् । वेगास: । पृथक् । उत् । विजन्ताम् । वर्षस्य । सर्गा: । महयन्तु । भूमिम् । पृथक् । जायन्ताम् । वीरुध: । विश्वऽरूपा: ॥१५.३॥

Atharvaveda » Kand:4» Sukta:15» Paryayah:0» Mantra:3


PANDIT KSHEMKARANDAS TRIVEDI

वृष्टि की प्रार्थना और गुणों का उपदेश।

Word-Meaning: - [हे ईश्वर !] (गायतः) गान करनेवाले लोगों को (नभांसि) बादलों का (समीक्षयस्व) दर्शन करा। (अपाम्) जल के (वेगासः) प्रवाह (पृथक्) नाना प्रकार से (उद् विजन्ताम्) उमड़कर चलें। (वर्षस्य) वर्षा की (सर्गाः) धाराएँ (भूमिम्) भूमिको (महयन्तु) समृद्ध करें, (विश्वरूपाः) नाना रूप (वीरुधः) झाड़ लताएँ (पृथक्) नाना प्रकार से (जायन्ताम्) उपजें ॥३॥
Connotation: - मन्त्र २ के समान है ॥३॥
Footnote: ३−(समीक्षयस्व) द्विकर्मकः। सन्दर्शय (गायतः) स्तुवतो लोकान् (नभांसि) नहेर्दिवि भश्च। उ० ४।२११। इति णह बन्धने-असुन् हस्य भः। यद्वा णभ हिंसायाम्-असुन्। नभ उदकम्-निघ० १।१२। नभ आदित्यो भवति नैता भासां ज्योतिषां प्रणयोऽपि वा भन एव स्याद् विपरीतो नन भातीति वैतेन द्यौव्यार्ख्याता-निरु० २।१४। अभ्राणि (अपाम्) उदकानाम् (वेगासः) वेगा प्रवाहाः (पृथक्) भिन्नभिन्नप्रकारेण (उद् विजन्ताम्) ओविजी भयचलनयोः। उच्चलन्तु (वीरुधः) विरोहणशीला आरण्या ओषधिवनस्पतयः। अन्यत् पूर्ववत् ॥